Atmadharma magazine - Ank 199
(Year 17 - Vir Nirvana Samvat 2486, A.D. 1960).

< Previous Page   Next Page >


PDF/HTML Page 23 of 31

background image
पूज्यश्री कानजी स्वामीनः करकमलयोः समर्पितम्
अभिनन्दनपत्रम्
शार्दुलविक्रीडित छन्द–
स्वामीन् सर्वजगत्प्रसिद्धमहिमन्नध्यात्मविधारवे।
मिथ्यामोह तमस्विनीविघटनप्रोद्भासि बोधोदय।।
यात्राया; क्रमतो विहृत्य सकलंतीर्थ जिनेशाम् पुनः।
सौभाग्यान्मम देशमागतवतस्ते स्वागतम् स्वागतम्।।
आत्मभ्रान्तिमुपेयुषीह जगति मार्ग समुधोतयन्।
सर्वस्यापि हिताय पक्षरहितं दत्त्वोपदेशं खलु।।
योऽज्ञानादपसारयत्यविरतं जिज्ञासमानाञ्जनान्।
सोऽयं सर्वजनानुकम्पिहृदयः सेव्यः सतामादरात्।।
अस्मिन् भारतवर्षपश्चिमिदिशि श्रीकच्छदेशे शुभे।
श्रेष्ठं सोनगढं विशालनगरं या भूषयंस्तिष्ठति।।
पूर्व श्वेतपटानुयाय्यपि परं श्रीकुन्दकुन्दः कृतम्।
ग्रन्थं सारमधीत्य निश्चयनयाज्जाग्रद्विवेकोदयः।। ३।।
शुद्धं जैनमतं निधाय मनसि प्रोद्भावयन् सर्वतः।
धारावाहिगभीरभाषणपटुप्रागल्भ्यमासादयन्।।
सद्धर्मामृतवर्षणेन नितरामध्यात्मविधाकृषिम्।
संपन्ना कुर्वन्नशेषवलतो मेऽनुग्रहादागतः।। ४।।
कान्जी स्फाटित चिज्जेडैकधिषण क्षीराम्बुवद्भेदकः।
भेदज्ञानकुठारखण्डितमहामिथ्यात्वकक्षः सताम्।।
चितारोपितशुद्धभावविभवश्चिद्रूपचिन्तामाण।
स्फूर्जज्ज्योतिरपास्तमोहममतानिष्यूसदुःखानलः।। ५।।
मयि पुनाश्चिरदर्शनलालसे भवति च स्वयमेव समागते।
अहह मे सृकृतं सफलं प्रभो खलु पुरातनकल्मषहानितः।। ६।।
अनुष्टुप् श्लोक
एव तुच्छोपहारोऽयं श्रद्धापुष्पसमन्वितः।
भवत्सवार्पितो नूनं गृह्यतां ग्रह्यतामिति।।
रचयिता– श्रीमतां वशंवदः–
पं० श्रुतसागरो जैनः न्यायकाव्यतीर्थः सकल दि० जैनसमाजः
शाहपुरवास्तव्यः
(આ સંસ્કૃત અભિનંદનપત્રના ગુજરાતી ભાવાર્થ માટે સામે પાને જુઓ.)