Benshreeke Vachanamrut (Hindi). Shlok.

< Previous Page   Next Page >


PDF/HTML Page 11 of 227

 

सुसीमा धृता येन सीमन्धरेण
भवारण्यभीमभ्रमीया सुकृत्यैः
प्रवन्द्यः सदा तीर्थकृद्देवदेवः
प्रदेयात् स मेऽनन्तकल्याणबीजम्
।।
यदीये चैतन्ये मुकुर इव भावाश्चिदचितः
समं भान्ति ध्रौव्यव्ययजनिलसन्तोऽन्तरहिताः
जगत्साक्षी मार्गप्रकटनपरो भानुरिव यो
महावीरस्वामी नयनपथगामी भवतु मे
।।
तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ
तुभ्यं नमः क्षितितलामलभूषणाय
तुभ्यं नमस्त्रिजगतः परमेश्वराय
तुभ्यं नमो जिन भवोदधिशोषणाय
।।