-
[ १६ ]
श्री सर्वज्ञजिनवाणी नमस्तस्यै
शास्त्र-स्वाध्यायका प्रारम्भिक मंगलाचरण
ॐ नमः सिद्धेभ्यः, ॐ जय जय, नमोस्तु! नमोस्तु!! नमोस्तु!!!
णमो अरिहंताणं, णमो सिद्धाणं, णमोआइरियाणं,
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं।
ओंकारं विन्दुसंयुक्तं, नित्यं ध्यायन्ति योगिनः।
कामदं मोक्षदं चैव, ओंकाराय नमोनमः।।१।।
अविरलशब्दघनौघप्रक्षालितसकलभूतलमलकलंका।
मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितान्।।२।।
अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः।।३।।
।। श्री परमगुरुवे नमः; परम्पराचार्यगुरवे नमः।।
सकलकलुषविध्वंसकं, श्रेयसां परिवर्धकं, धर्मसम्बन्धकं, भव्यजीवमनः-
प्रतिबोधकारकमिदं ग्रन्थ श्री मोक्षमार्ग प्रकाशक नामधेयं, तस्यमूलग्रन्थकर्तारः
श्रीसर्वज्ञदेवास्तदुत्तरग्रन्थकर्तारः श्रीगणधरदेवाः प्रतिगणधरदेवास्तेषां वचोनुसारमासाद्य
श्री आचार्यकल्प पंडितप्रवर श्री टोडरमलजी विरचितं।
श्रोतारः सावधानतया श्रृण्वन्तु।
मंगलं भगवान् वीरो, मंगलं गौतमो गणी।
मंगलं कुन्दकुन्दार्द्यो, जैनधर्मोस्तु मङ्गलम्।।