Moksha Shastra (Gujarati). Swadhyaay Mangalaacharan.

< Previous Page   Next Page >


Page 3 of 655
PDF/HTML Page 58 of 710

 

श्रीसर्वज्ञवीतरागाय नमः
शास्त्र–स्वाध्यायका प्रारम्भिक मंगलाचरण
*
ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः।
कामदं मोक्षदं चैव
काराय नमो नमः।। १ ।।
अविरलशब्दघनौघप्रक्षालितसकलभूतलकलङ्का।
मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितान्।। २ ।।
अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः।। ३ ।।
।। श्रीपरमगुरवे नमः, परम्पराचार्यगुरवे नमः ।।

सकलकलुषविध्वंशकं, श्रेयसां परिवर्धकं, धर्मसम्बन्धकं,

भव्यजीवमनःप्रतिबोधकारकं, पुण्यप्रकाशकं पापप्रणाशकमिदं
शास्त्रं श्री मोक्षशास्त्र नामधेयं, अस्य मूलग्रंथकर्तारः
श्रीसर्वज्ञदेवास्तदुत्तरग्रंथकर्तारः श्रीगणधरदेवाः प्रतिगणधरदेवा–
स्तेषां वचनानुसारमासाद्य आचार्यश्रीउमास्वामीआचार्यदेव–
विरचितं, श्रोतारः सावधानतया श्रृण्वन्तु।।
मंगलं भगवान् वीरो, मंगलं गौतमो गणी।
मंगलं कुन्दकुन्दार्यो जैनधर्मोऽस्तु मंगलम्।। १ ।।
सर्वमङ्गलमांगल्यं सर्वकल्याणकारकं।
प्रधानं सर्वधर्माणां जैनं जयतु
शासनम्।। २ ।।