सूत्रार्थवैशारद्यप्रवर्तितसंयमतपःस्वतत्त्वज्ञानानामेव श्रमणानामभ्युत्थानादिकाः प्रवृत्तयो- ऽप्रतिषिद्धा, इतरेषां तु श्रमणाभासानां ताः प्रतिषिद्धा एव ।।२६३।। पदार्थपरिज्ञानार्थमुपासेयाः परमभक्त्या सेवनीयाः । संजमतवणाणड्ढा पणिवदणीया हि संयमतपोज्ञानाढयाः प्रणिपतनीयाः हि स्फु टं । बहिरङ्गेन्द्रियसंयमप्राणसंयमबलेनाभ्यन्तरे स्वशुद्धात्मनि यत्नपरत्वं संयमः । बहिरङ्गानशनादितपोबलेनाभ्यन्तरे परद्रव्येच्छानिरोधेन च स्वस्वरूपे प्रतपनं विजयनं तपः । बहिरङ्ग- परमागमाभ्यासेनाभ्यन्तरे स्वसंवेदनज्ञानं सम्यग्ज्ञानम् । एवमुक्तलक्षणैः संयमतपोज्ञानैराढयाः परिपूर्णा यथासंभवं प्रतिवन्दनीयाः । कैः । समणेहिं श्रमणैरिति । अत्रेदं तात्पर्यम् — ये बहुश्रुता अपि चारित्राधिका न भवन्ति, तेऽपि परमागमाभ्यासनिमित्तं यथायोग्यं वन्दनीयाः । द्वितीयं च कारणम् — ते सम्यक्त्वे ज्ञाने च पूर्वमेव दृढतराः, अस्य तु नवतरतपोधनस्य सम्यक्त्वे ज्ञाने चापि दाढर्यं नास्ति । तर्हि स्तोकचारित्राणां किमर्थमागमे वन्दनादिनिषेधः कृत इति चेत् । अतिप्रसंगनिषेधार्थमिति ।।२६३।।
हवे श्रमणाभासो प्रत्ये सर्व प्रवृत्तिओ निषेधे छेः —
अन्वयार्थः — [श्रमणैः हि] श्रमणोए [सूत्रार्थविशारदाः] सूत्रार्थविशारद (सूत्रोना अने सूत्रकथित पदार्थोना ज्ञानमां निपुण) तथा [संयमतपोज्ञानाढयाः] संयमतपज्ञानाढ्य (संयम, तप अने आत्मज्ञानमां समृद्ध) [श्रमणाः] श्रमणो प्रत्ये [अभ्युत्थेयाः उपासेयाः प्रणिपतनीयाः] अभ्युत्थान, उपासना अने *प्रणिपात करवायोग्य छे.
टीकाः — जेमने सूत्रोमां अने पदार्थोमां विशारदपणा वडे संयम, तप अने स्वतत्त्वनुं ज्ञान प्रवर्ते छे ते श्रमणो प्रत्ये ज अभ्युत्थानादिक प्रवृत्तिओ अनिषिद्ध छे, परंतु ते सिवाय बीजा श्रमणाभासो प्रत्ये ते प्रवृत्तिओ निषिद्ध ज छे. २६३.
*प्रणिपात = साष्टांग प्रणाम; पगे पडवुं ते; प्रणाम.