द्रव्यमाश्रित्य परानाश्रयत्वेन वर्तमानैर्लिङ्गयते गम्यते द्रव्यमेतैरिति लिङ्गानि गुणाः । ते च यद्द्रव्यं भवति न तद्गुणा भवन्ति, ये गुणा भवन्ति ते न द्रव्यं भवतीति द्रव्यादतद्भावेन विशिष्टाः सन्तो लिङ्गलिङ्गिप्रसिद्धौ तल्लिङ्गत्वमुपढौकन्ते । अथ ते द्रव्यस्य जीवोऽयम- जीवोऽयमित्यादिविशेषमुत्पादयन्ति, स्वयमपि तद्भावविशिष्टत्वेनोपात्तविशेषत्वात् । यतो हि यस्य यस्य द्रव्यस्य यो यः स्वभावस्तस्य तस्य तेन तेन विशिष्टत्वात्तेषामस्ति विशेषः । अत एव च मूर्तानाममूर्तानां च द्रव्याणां मूर्तत्वेनामूर्तत्वेन च तद्भावेन विशिष्टत्वादिमे मूर्ता गुणा इमे अमूर्ता इति तेषां विशेषो निश्चेयः ।।१३०।।
अथ मूर्तामूर्तगुणानां लक्षणसंबन्धमाख्याति — ज्ञातव्याः । ते च कथंभूताः । अतब्भावविसिट्ठा अतद्भावविशिष्टाः । तद्यथा – शुद्धजीवद्रव्ये ये केवलज्ञानादिगुणास्तेषां शुद्धजीवप्रदेशैः सह यदेकत्वमभिन्नत्वं तन्मयत्वं स तद्भावो भण्यते, तेषामेव गुणानां तैः प्रदेशैः सह यदा संज्ञालक्षणप्रयोजनादिभेदः क्रियते तदा पुनरतद्भावो भण्यते, तेनातद्भावेन संज्ञादिभेदरूपेण स्वकीयस्वकीयद्रव्येण सह विशिष्टा भिन्ना इति, द्वितीयव्याख्यानेन पुनः स्वकीय- द्रव्येण सह तद्भावेन तन्मयत्वेनान्यद्रव्याद्विशिष्टा भिन्ना इत्यभिप्रायः । एवं गुणभेदेन द्रव्यभेदो
ṭīkāḥ — dravyano āshray karīne ane parano āshray karyā vinā vartatān hovāthī jemanā vaḍe dravya ‘liṅgit’ (-prāpta) thāy chhe – oḷakhī shakāy chhe, evān liṅgo guṇo chhe. teo (guṇo), ‘je dravya chhe te guṇo nathī, je guṇo chhe te dravya nathī’ — te apekṣhāe dravyathī 1atadbhāv vaḍe vishiṣhṭa (-bhinna) vartatā thakā, liṅg ane 2liṅgī tarīkenī prasiddhi (khyāti, oḷakhāṇ) vakhate dravyanā liṅgapaṇāne pāme chhe. have, teo dravyamān ‘ā jīv chhe, ā ajīv chhe’ evo visheṣh (-bhed) utpanna kare chhe, kāraṇ ke pote paṇ 3tadbhāv vaḍe 4vishiṣhṭa hovāthī visheṣhane prāpta chhe. je je dravyano je je svabhāv hoy tenun tenun te te vaḍe vishiṣhṭapaṇun hovāne līdhe temanāmān visheṣh (arthāt bhed) chhe, tethī ja vaḷī mūrta ane amūrta dravyonun mūrtatva -amūrtatvarūp tadbhāv vaḍe vishiṣhṭapaṇun hovāne līdhe ‘ā mūrta guṇo chhe, ā amūrta guṇo chhe’ em temanāmān visheṣh (-bhed) nakkī karavāyogya chhe. 130.
have mūrta ane amūrta guṇonān lakṣhaṇ tathā sambandh (arthāt temane kayān dravyo sāthe sambandh chhe te) kahe chheḥ —
258pravachanasār[ bhagavānashrīkundakund-
1. atadbhāv = (kathañchit) te -paṇe nahi hovun te.
2. liṅgī = liṅgavāḷun. (khās guṇ te liṅg – chihna – lakṣhaṇ chhe ane liṅgī te dravya chhe.)
3. tadbhāv = te -paṇun; te -paṇe hovun te; svarūp.
4. vishiṣhṭa = visheṣhatāvāḷun; khās; bhinna.