व्यञ्जितनित्यत्वे योऽर्थः तत्तु द्रव्यम् । एवमनुत्पन्नाविध्वस्तो द्रव्यसमयः, उत्पन्नप्रध्वंसी पर्याय-
समयः । अनंशः समयोऽयमाकाशप्रदेशस्यानंशत्वान्यथानुपपत्तेः । न चैकसमयेन परमाणोरा-
लोकान्तगमनेऽपि समयस्य सांशत्वं, विशिष्टगतिपरिणामाद्विशिष्टावगाहपरिणामवत् । तथाहि –
यथा विशिष्टावगाहपरिणामादेकपरमाणुपरिमाणोऽनन्तपरमाणुस्कन्धः परमाणोरनंशत्वात्
पुनरप्यनन्तांशत्वं न साधयति, तथा विशिष्टगतिपरिणामादेककालाणुव्याप्तैकाकाशप्रदेशाति-
संख्येयासंख्येयानन्तसमयो भवति, तथापि वर्तमानसमयं प्रत्युत्पन्नप्रध्वंसी । यस्तु पूर्वोक्तद्रव्यकालः स
त्रिकालस्थायित्वेन नित्य इति । एवं कालस्य पर्यायस्वरूपं द्रव्यस्वरूपं च ज्ञातव्यम् ।। अथवानेन
गाथाद्वयेन समयरूपव्यवहारकालव्याख्यानं क्रियते । निश्चयकालव्याख्यानं तु ‘उप्पादो पद्धंसो’ इत्यादि
गाथात्रयेणाग्रे करोति । तद्यथा — समओ परमार्थकालस्य पर्यायभूतसमयः । अवप्पदेसो अपगतप्रदेशो
द्वितीयादिप्रदेशरहितो निरंश इत्यर्थः । कथं निरंश इति चेत् । पदेसमेत्तस्स दवियजादस्स
प्रदेशमात्रपुद्गलद्रव्यस्य संबन्धी योऽसौ परमाणुः वदिवादादो वट्टदि व्यतिपातात् मन्दगति-
गमनात्सकाशात्स परमाणुस्तावद्गमनरूपेण वर्तते । कं प्रति । पदेसमागासदवियस्स विवक्षितै-
काकाशप्रदेशं प्रति । इति प्रथमगाथाव्याख्यानम् । वदिवददो तं देसं स परमाणुस्तमाकाशप्रदेशं यदा
व्यतिपतितोऽतिक्रान्तो भवति तस्सम समओ तेन पुद्गलपरमाणुमन्दगतिगमनेन समः समानः समयो
भवतीति निरंशत्वमिति वर्तमानसमयो व्याख्यातः । इदानीं पूर्वापरसमयौ कथयति — तदो परो पुव्वो
तस्मात्पूर्वोक्तवर्तमानसमयात्परो भावी कोऽपि समयो भविष्यति पूर्वमपि कोऽपि गतः अत्थो जो एवं
यः समयत्रयरूपोर्थः सो कालो सोऽतीतानागतवर्तमानरूपेण त्रिविधव्यवहारकालो भण्यते । समओ
उप्पण्णपद्धंसी तेषु त्रिषु मध्ये योऽसौ वर्तमानः स उत्पन्नप्रध्वंसी अतीतानागतौ तु संख्येयासंख्ये-
pragaṭ thāy chhe evo padārtha te dravya chhe. ā rīte dravyasamay (arthāt kāḷadravya) anutpanna- avinaṣhṭa chhe ane paryāyasamay utpanna -dhvansī chhe (arthāt ‘samay’paryāy utpattivināshavāḷo chhe). ā ‘samay’ niransh chhe, kāraṇ ke jo em na hoy to ākāshanā pradeshanun niranshapaṇun bane nahi.
vaḷī ek samayamān paramāṇu lokanā ant sudhī jato hovā chhatān ‘samay’nā ansho paḍatā nathī; kāraṇ ke jem (paramāṇune) vishiṣhṭa (khās prakāranā) avagāhapariṇām hoy chhe tem (paramāṇune) vishiṣhṭa gatipariṇām hoy chhe. te samajāvavāmān āve chheḥ — jem vishiṣhṭa avagāhapariṇāmane līdhe ek paramāṇunā kad jevaḍo anant paramāṇuono skandh bane chhe topaṇ te skandh paramāṇunā anant ansho siddha karato nathī, kāraṇ ke paramāṇu niransh chhe; tem jyāre ek kāḷāṇuthī vyāpta ek ākāshapradeshanā atikramaṇanā māp jevaḍā ek