Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ശ്രീ ദിഗംബര ജൈന സ്വാധ്യായമംദിര ട്രസ്ട, സോനഗഢ - ൩൬൪൨൫൦
അധികാര-൨ : ദോഹാ-൯൩ ]പരമാത്മപ്രകാശ: [ ൩൭൩
अथ यो बाह्याभ्यन्तरपरिग्रहेणात्मानं महान्तं मन्यते स परमार्थं न जानातीति
दर्शयति —
२२०) अप्पउ मण्णइ जो जि मुणि गुरुयउ गंथहि तत्थु ।
सो परमत्थे जिणु भणइ णवि बुज्झइ परमत्थु ।।९३।।
आत्मानं मन्यते य एव मुनिः गुरुकं ग्रन्थैः तथ्यम् ।
स परमार्थेन जिनो भणति नैव बुध्यते परमार्थम् ।।९३।।
आत्मानं मन्यते य एव मुनिः । कथंभूतं मन्यते । गुरुकं महान्तम् । कैः ।
ग्रन्थैर्बाह्याभ्यन्तरपरिग्रहैस्तथ्यं सत्यं स पुरुषः परमार्थेन वस्तुवृत्त्या नैव बुध्यते परमार्थमिति जिनो
वदति । तथाहि । निर्दोषिपरमात्मविलक्षणैः पूर्वसूत्रोक्त सचित्ताचित्तमिश्रपरिग्रहैर्ग्रन्थरचनारूपशब्द-
शास्त्रैर्वा आत्मानं महान्तं मन्यते यः स परमार्थशब्दवाच्यं वीतरागपरमानन्दैकस्वभावं परमात्मानं
ഹവേ, ജേ ബാഹ്യ അഭ്യംതര പരിഗ്രഹഥീ പോതാനേ മഹാന മാനേ ഛേ തേ പരമാര്ഥനേ ജാണതോ നഥീ,
ഏമ ദര്ശാവേ ഛേ : —
ഭാവാര്ഥ: — നിര്ദോഷ പരമാത്മാഥീ വിലക്ഷണ പൂര്വ സൂത്രമാം കഹേലാ സചിത, അചിത അനേ മിശ്ര
പരിഗ്രഹോഥീ അഥവാ ഗ്രംഥരചനാരൂപ ശബ്ദോഥീ-ശാസ്ത്രോഥീ-പോതാനേ മഹാന മാനേ ഛേ, തേ ‘പരമാര്ഥ’ ശബ്ദഥീ
വാച്യ, വീതരാഗ പരമാനംദ ജ ജേനോ ഏക സ്വഭാവ ഛേ ഏവാ പരമാത്മാനേ ജാണതോ നഥീ, ഏ താത്പര്യാര്ഥ
ഛേ. ൯൩.
आगे जो बाह्य अभ्यंतर परिग्रहसे अपनेको महंत मानता है, वह परमार्थको नहीं जानता,
ऐसा दिखलाते हैं —
गाथा – ९३
अन्वयार्थ : — [य एव ] जो [मुनिः ] मुनि [ग्रंथैः ] बाह्य परिग्रहसे [आत्मानं ]
अपनेको [गुरकं ] महंत (बड़ा) [मन्यते ] मानता है, अर्थात् परिग्रहसे ही गौरव जानता है,
[तथ्यम् ] निश्चयसे [सः ] वही पुरुष [परमार्थेन ] वास्तवमें [परमार्थम् ] परमार्थको [नैव
बुध्यते ] नहीं जानता, [जिनः भणति ] ऐसा जिनेश्वरदेव कहते हैं ।
भावार्थ : — निर्दोष परमात्मासे पराङ्मुख जो पूर्वसूत्रमें कहे गए सचित्त, अचित्त, मिश्र
परिग्रह हैं, उनसे अपनेको महंत मानता है, जो मैं बहुत पढ़ा हूँ । ऐसा जिसके अभिमान है,
वह परमार्थ यानी वीतराग परमानंदस्वभाव निज आत्माको नहीं जानता । आत्म - ज्ञानसे रहित है,
यह निःसंदेह जानो ।।९३।।