अतीन्द्रियं हि ज्ञानं यदमूर्तं यन्मूर्तेष्वप्यतीन्द्रियं यत्प्रच्छन्नं च तत्सकलं विव्रियते — अमूर्ताभिः क्षायिकीभिरतीन्द्रियाभिश्चिदानन्दैकलक्षणाभिः शुद्धात्मशक्तिभिरुत्पन्नत्वा- दतीन्द्रियज्ञानं सुखं चात्माधीनत्वेनाविनश्वरत्वादुपादेयमिति; पूर्वोक्तामूर्तशुद्धात्मशक्तिभ्यो विलक्षणाभिः क्षायोपशमिकेन्द्रियशक्तिभिरुत्पन्नत्वादिन्द्रियजं ज्ञानं सुखं च परायत्तत्वेन विनश्वरत्वाद्धेयमिति तात्पर्यम् ।।५३।। एवमधिकारगाथया प्रथमस्थलं गतम् । अथ पूर्वोक्तमुपादेयभूतमतीन्द्रियज्ञानं विशेषेण व्यक्तीकरोति — जं यदतीन्द्रियं ज्ञानं कर्तृ । पेच्छदो प्रेक्षमाणपुरुषस्य जानाति । किम् । अमुत्तं अमूर्त- मतीन्द्रियनिरुपरागसदानन्दैकसुखस्वभावं यत्परमात्मद्रव्यं तत्प्रभृति समस्तामूर्तद्रव्यसमूहं मुत्तेसु अदिंदियं च मूर्तेषु पुद्गलद्रव्येषु यदतीन्द्रियं परमाण्वादि । पच्छण्णं कालाणुप्रभृतिद्रव्यरूपेण प्रच्छन्नं व्यवहित- मन्तरितं, अलोकाकाशप्रदेशप्रभृति क्षेत्रप्रच्छन्नं, निर्विकारपरमानन्दैकसुखास्वादपरिणतिरूपपरमात्मनो वर्तमानसमयगतपरिणामास्तत्प्रभृतयो ये समस्तद्रव्याणां वर्तमानसमयगतपरिणामास्ते कालप्रच्छन्नाः, तस्यैव परमात्मनः सिद्धरूपशुद्धव्यञ्जनपर्यायः शेषद्रव्याणां च ये यथासंभवं व्यञ्जनपर्यायास्तेष्वन्त-
હવે અતીંદ્રિય સુખના સાધનભૂત ( – કારણરૂપ) અતીંદ્રિય જ્ઞાન ઉપાદેય છે — એમ તેને પ્રશંસે છેઃ —
અન્વયાર્થઃ — [ प्रेक्षमाणस्य यत् ] દેખનારનું જે જ્ઞાન [ अमूर्तं ] અમૂર્તને, [ मूर्तेषु ] મૂર્ત પદાર્થોમાં પણ [ अतीन्द्रियं ] અતીંદ્રિયને, [ च प्रच्छन्नं ] અને પ્રચ્છન્નને [ सकलं ] એ બધાંયને — [ स्वकं च इतरत् ] સ્વ તેમ જ પરને — દેખે છે, [ तद् ज्ञानं ] તે જ્ઞાન [ प्रत्यक्षं भवति ] પ્રત્યક્ષ છે.