Pravachansar (Gujarati).

< Previous Page   Next Page >


Page 413 of 513
PDF/HTML Page 444 of 544

 

background image
यो हि नामाप्रतिषिद्धोऽस्मिन्नुपधिरपवादः, स खलु निखिलोऽपि श्रामण्यपर्याय-
सहकारिकारणत्वेनोपकारकारकत्वादुपकरणभूत एव, न पुनरन्यः तस्य तु विशेषाः सर्वाहार्य-
वर्जितसहजरूपापेक्षितयथाजातरूपत्वेन बहिरङ्गलिङ्गभूताः कायपुद्गलाः, श्रूयमाणतत्कालबोधक-
पुरुषाणां किं न भवन्तीति चेत् एवं न वक्तव्यं, स्त्रीषु बाहुल्येन भवन्ति न चास्तित्वमात्रेण
समानत्वम् एकस्य विषकणिकास्ति, द्वितीयस्य च विषपर्वतोऽस्ति, किं समानत्वं भवति किंतु
पुरुषाणां प्रथमसंहननबलेन दोषविनाशको मुक्तियोग्यविशेषसंयमोऽस्ति तासिं कह संजमो होदि ततः
कारणात्तासां कथं संयमो भवतीति ।।“२६।। अथ स्त्रीणां तद्भवमुक्तियोग्यां सकलकर्मनिर्जरां
निषेधयति
जदि दंसणेण सुद्धा सुत्तज्झयणेण चावि संजुत्ता
घोरं चरदि व चरियं इत्थिस्स ण णिज्जरा भणिदा ।।“२७।।
जदि दंसणेण सुद्धा यद्यपि दर्शनेन सम्यक्त्वेन शुद्धा, सुत्तज्झयणे चावि संजुत्ता एकादशाङ्ग-
सूत्राध्ययनेनापि संयुक्ता, घोरं चरदि व चरियं घोरं पक्षोपवासमासोपवासादि चरति वा चारित्रं, इत्थिस्स
ण णिज्जरा भणिदा तथापि स्त्रीजनस्य तद्भवकर्मक्षययोग्या सकलनिर्जरा न भणितेति भावः किंच यथा
प्रथमसंहननाभावात्स्त्री सप्तमनरकं न गच्छति, तथा निर्वाणमपि ‘‘पुंवेदं वेदंता पुरिसा जे
खवगसेढिमारूढा सेसोदयेण वि तहा झाणुवजुत्ता य ते दु सिज्झंति’’ इति गाथाकथितार्थाभिप्रायेण
भावस्त्रीणां कथं निर्वाणमिति चेत् तासां भावस्त्रीणां प्रथमसंहननमस्ति, द्रव्यस्त्रीवेदाभावात्तद्भवमोक्ष-
परिणामप्रतिबन्धकतीव्रकामोद्रेकोऽपि नास्ति द्रव्यस्त्रीणां प्रथमसंहननं नास्तीति कस्मिन्नागमे
कथितमास्त इति चेत् तत्रोदाहरणगाथा‘‘अंतिमतिगसंघडणं णियमेण य कम्मभूमिमहिलाणं
आदिमतिगसंघडणं णत्थि त्ति जिणेहिं णिद्दिट्ठं’’।। अथ मतम्यदि मोक्षो नास्ति तर्हि भवदीयमते
किमर्थमर्जिकानां महाव्रतारोपणम् परिहारमाहतदुपचारेण कुलव्यवस्थानिमित्तम् न चोपचारः
साक्षाद्भवितुमर्हति, अग्निवत् क्रूरोऽयं देवदत्त इत्यादिवत् तथाचोक्तम्मुख्याभावे सति प्रयोजने
निमित्ते चोपचारः प्रवर्तते किंतु यदि तद्भवे मोक्षो भवति स्त्रीणां तर्हि शतवर्षदीक्षिताया अर्जिकाया
अद्यदिने दीक्षितः साधुः कथं वन्द्यो भवति सैव प्रथमतः किं न वन्द्या भवति साधोः किंतु भवन्मते
ટીકાઃઆમાં જે અનિષિદ્ધ ઉપધિ અપવાદ છે, તે બધોય ખરેખર એવો જ છે
કે જે શ્રામણ્યપર્યાયના સહકારી કારણ તરીકે ઉપકાર કરનારો હોવાથી ઉપકરણભૂત છે,
બીજો નહિ. તેના વિશેષો (ભેદો) આ પ્રમાણે છેઃ (૧) સર્વ
આહાર્ય રહિત સહજ રૂપથી
અપેક્ષિત એવા (સર્વ આહાર્ય રહિત) યથાજાતરૂપપણાને લીધે જે બહિરંગ લિંગભૂત છે એવાં
૧. આહાર્ય = બહારથી લાવવામાં આવતું; કૃત્રિમ; ઔપાધિક. [સર્વ કૃત્રિમઔપાધિક ભાવોથી રહિત
એવું જે મુનિના આત્માનું સહજ રૂપ તે, વસ્ત્રાભૂષણાદિક સર્વ કૃત્રિમતાઓથી રહિત યથાજાતરૂપપણાની
અપેક્ષા રાખે છે અર્થાત
્ મુનિના આત્માનું રૂપદશાસહજ હોવાથી દેહ પણ યથાજાત જ હોવો
જોઇએ; માટે યથાજાતરૂપપણું તે મુનિપણાનું બાહ્ય લિંગ છે.]
કહાનજૈનશાસ્ત્રમાળા ]
ચરણાનુયોગસૂચક ચૂલિકા
૪૧૩