भणित इत्यध्याहारः । स कः । उववादो व्यवहारनयेनोत्पादः । किंविशिष्टः । संतत्तियं सान्ततिको निरन्तरः । केषां संबन्धी । णिगोदाणं निश्चयेन शुद्धबुद्धैकस्वभावानामनादिनिधनत्वेनोत्पादव्यय- रहितानामपि निगोदजीवानाम् । पुनरपि कथंभूतानाम्। तज्जादीणं तद्वर्णतद्गन्धतद्रसतत्स्पर्शत्वेन तज्जातीनां मांसजातीनाम् । कास्वधिकरणभूतासु । मंसपेसीसु मांसपेशीषु मांसखण्डेषु । कथंभूतासु । पक्केसु अ आमेसु अ विपच्चमाणासु पक्वासु चामासु च विपच्यमानास्विति प्रथमगाथा । जो पक्कमपक्कं वा यः कर्ता पक्वामपक्वां वा पेसीं पेशीं खण्डम् । कस्य । मंसस्स मांसस्य । खादि निजशुद्धात्मभावनोत्पन्न- सुखसुधाहारमलभमानः सन् खादति भक्षति, फासदि वा स्पर्शति वा, सो किल णिहणदि पिंडं स कर्ता किल लोकोक्त्या परमागमोक्त्या वा निहन्ति पिण्डम् । केषाम् । जीवाणं जीवानाम् । कति- संख्योपेतानाम् । अणेगकोडीणं अनेककोटीनामिति । अत्रेदमुक्तं भवति – शेषकन्दमूलाद्याहाराः केचनानन्त- काया अप्यग्निपक्वाः सन्तः प्रासुका भवन्ति, मांसं पुनरनन्तकायं भवति तथैव चाग्निपक्वमपक्वं पच्यमानं वा प्रासुकं न भवति । तेन कारणेनाभोज्यमभक्षणीयमिति ।।“३२ – ३३।। अथ पाणिगताहारः प्रासुकोऽप्यन्यस्मै न दातव्य इत्युपादिशति —
અન્વયાર્થઃ — [बालः वा] બાળ, [वृद्धः वा] વૃદ્ધ, [श्रमाभिहतः वा] ૨શ્રાંત [पुनः ग्लानः वा] કે ૩ગ્લાન શ્રમણ [मूलच्छेदः] મૂળનો છેદ [यथा न भवति] જે રીતે ન થાય તે રીતે [स्वयोग्यां] પોતાને યોગ્ય [चर्यां चरतु] આચરણ આચરો. ૧. સુસ્થિત = સારી સ્થિતિવાળું; આબાદ; દ્રઢ. ૨. શ્રાંત = શ્રમિત; થાકેલો. ૩. ગ્લાન = વ્યાધિગ્રસ્ત; રોગી; દુર્બળ.