यदज्ञानी कर्म क्रमपरिपाटया बालतपोवैचित्र्योपक्रमेण च पच्यमानमुपात्तरागद्वेषतया
सुखदुःखादिविकारभावपरिणतः पुनरारोपितसन्तानं भवशतसहस्रकोटीभिः कथञ्चन निस्तरति,
तदेव ज्ञानी स्यात्कारकेतनागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वयौगपद्यातिशयप्रसादासादितशुद्ध-
ज्ञानमयात्मतत्त्वानुभूतिलक्षणज्ञानित्वसद्भावात्कायवाङ्मनःकर्मोपरमप्रवृत्तत्रिगुप्तत्वात् प्रचण्डोप-
न भवति । मोक्षावस्था शुद्धा फलभूता, सा चाग्रे तिष्ठति । एताभ्यां द्वाभ्यां भिन्ना यान्तरात्मावस्था
सा मिथ्यात्वरागादिरहितत्वेन शुद्धा । यथा सूक्ष्मनिगोतज्ञाने शेषावरणे सत्यपि क्षयोपशमज्ञानावरणं
नास्ति तथात्रापि केवलज्ञानावरणे सत्यप्येकदेशक्षयोपशमज्ञानापेक्षया नास्त्यावरणम् । यावतांशेन
निरावरणा रागादिरहितत्वेन शुद्धा च तावतांशेन मोक्षकारणं भवति । तत्र शुद्धपारिणामिकभावरूपं
परमात्मद्रव्यं ध्येयं भवति, तच्च तस्मादन्तरात्मध्यानावस्थाविशेषात्कथंचिद्भिन्नम् । यदैकान्तेनाभिन्नं
भवति तदा मोक्षेऽपि ध्यानं प्राप्नोति, अथवास्य ध्यानपर्यायस्य विनाशे सति तस्य पारिणामिक-
भावस्यापि विनाशः प्राप्नोति । एवं बहिरात्मान्तरात्मपरमात्मकथनरूपेण मोक्षमार्गो ज्ञातव्यः । अथ
परमागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां भेदरत्नत्रयरूपाणां मेलापकेऽपि, यदभेदरत्नत्रयात्मकं निर्विकल्प-
समाधिलक्षणमात्मज्ञानं, निश्चयेन तदेव मुक्तिकारणमिति प्रतिपादयति — जं अण्णाणी कम्मं खवेदि
निर्विकल्पसमाधिरूपनिश्चयरत्नत्रयात्मकविशिष्टभेदज्ञानाभावादज्ञानी जीवो यत्कर्म क्षपयति । काभिः
करणभूताभिः । भवसयसहस्सकोडीहिं भवशतसहस्रकोटिभिः । तं णाणी तिहिं गुत्तो तत्कर्म ज्ञानी जीवस्त्रि-
गुप्तिगुप्तः सन् खवेदि उस्सासमेत्तेण क्षपयत्युच्छ्वासमात्रेणेति । तद्यथा — बहिर्विषये परमागमाभ्यासबलेन
यत्सम्यक्परिज्ञानं तथैव श्रद्धानं व्रताद्यनुष्ठानं चेति त्रयं, तत्त्रयाधारेणोत्पन्नं सिद्धजीवविषये सम्यक्-
परिज्ञानं श्रद्धानं तद्गुणस्मरणानुकूलमनुष्ठानं चेति त्रयं, तत्त्रयाधारेणोत्पन्नं विशदाखण्डैकज्ञानाकारे
स्वशुद्धात्मनि परिच्छित्तिरूपं सविकल्पज्ञानं स्वशुद्धात्मोपादेयभूतरुचिविकल्परूपं सम्यग्दर्शनं तत्रैवात्मनि
रागादिविकल्पनिवृत्तिरूपं सविकल्पचारित्रमिति त्रयम् । तत्त्रयप्रसादेनोत्पन्नं यन्निर्विकल्पसमाधिरूपं
निश्चयरत्नत्रयलक्षणं विशिष्टस्वसंवेदनज्ञानं तदभावादज्ञानी जीवो बहुभवकोटिभिर्यत्कर्म क्षपयति,
ટીકાઃ — જે કર્મ, (અજ્ઞાનીને) ક્રમપરિપાટીથી તથા અનેક પ્રકારના બાળતપરૂપ
ઉદ્યમથી પાકતું થકું, રાગદ્વેષ ગ્રહણ કર્યા હોવાને લીધે સુખદુઃખાદિ વિકારભાવે પરિણમતો
હોવાથી ફરીને સંતાન આરોપતું જાય એવી રીતે, લક્ષ કોટિ ભવો વડે, ગમે તેમ કરીને ( – મહા
મુશ્કેલીથી), અજ્ઞાની ઓળંગી જાય છે, તે જ કર્મ, (જ્ઞાનીને) સ્યાત્કારકેતન આગમજ્ઞાન,
તત્ત્વાર્થશ્રદ્ધાન ને સંયતત્વના યુગપદપણાના અતિશય પ્રસાદથી પ્રાપ્ત કરેલી શુદ્ધજ્ઞાનમય
આત્મતત્ત્વની અનુભૂતિ જેનું લક્ષણ છે એવા જ્ઞાનીપણાના સદ્ભાવને લીધે કાય -વચન -મનનાં
કર્મોના *ઉપરમ વડે ત્રિગુપ્તપણું પ્રવર્તતું હોવાથી પ્રચંડ ઉદ્યમ વડે પાકતું થકું, રાગદ્વેષ છોડ્યા
હોવાને લીધે સમસ્ત સુખદુઃખાદિ વિકારો અત્યંત નિરસ્ત થયા હોવાથી ફરીને સંતાન ન
*ઉપરમ = વિરામ; અટકી જવું તે. [જ્ઞાનીને જ્ઞાનીપણાને લીધે કાય -વચન -મન સંબંધી કાર્યો અટકી
જવાથી ત્રિગુપ્તપણું પ્રવર્તે છે.]
કહાનજૈનશાસ્ત્રમાળા ]
ચરણાનુયોગસૂચક ચૂલિકા
૪૪૩