भेदरूपो मुख्यवृत्त्या शुभोपयोगरूपेणेदानीं व्याख्यातो, नास्ति पुनरुक्तदोष इति । एवं समाचारविशेषविवरणरूपेण चतुर्थस्थले गाथाष्टकं गतम् । अथ स्वयं गुणहीनः सन् परेषां गुणाधिकानां योऽसौ विनयं वाञ्छति, तस्य गुणविनाशं दर्शयति — सो होदि अणंतसंसारी स कथंचिदनन्तसंसारी संभवति । यः किं करोति । पडिच्छगो जो दु प्रत्येषको यस्तु, अभिलाषकोऽपेक्षक इति । कम् । विणयं वन्दनादिविनयम् । कस्य संबन्धिनम् । गुणदोधिगस्स बाह्याभ्यन्तररत्नत्रयगुणाभ्यामधिकस्यान्य- तपोधनस्य । केन कृत्वा । होमि समणो त्ति अहमपि श्रमणो भवामीत्यभिमानेन गर्वेण । यदि किम् । होज्जं गुणाधरो जदि निश्चयव्यवहाररत्नत्रयगुणाभ्यां हीनः स्वयं यदि चेद्भवतीति । अयमत्रार्थः — यदि चेद्गुणाधिकेभ्यः सकाशाद्गर्वेण पूर्वं विनयवाञ्छां करोति, पश्चाद्विवेकबलेनात्मनिन्दां करोति, तदानन्तसंसारी न भवति, यदि पुनस्तत्रैव मिथ्याभिमानेन ख्यातिपूजालाभार्थं दुराग्रहं करोति तदा भवति । अथवा यदि कालान्तरेऽप्यात्मनिन्दां करोति तथापि न भवतीति ।।२६६।। अथ स्वयमधिकगुणाः सन्तो यदि गुणाधरैः सह वन्दनादिक्रियासु वर्तन्ते तदा गुणविनाशं दर्शयति — वट्टंति वर्तन्ते प्रवर्तन्ते जदि यदि चेत् । क्व वर्तन्ते । किरियासु वन्दनादिक्रियासु । कैः सह । गुणाधरेहिं गुणाधरैर्गुणरहितैः । स्वयं कथंभूताः सन्तः । अधिगगुणा अधिकगुणाः । क्व । सामण्णे श्रामण्ये चारित्रे । ते मिच्छत्तपउत्ता हवंति ते कथंचिदतिप्रसंगान्मिथ्यात्वप्रयुक्ता भवन्ति । न केवलं मिथ्यात्वप्रयुक्ताः, पब्भट्ठचारित्ता प्रभ्रष्टचारित्राश्च भवन्ति । तथाहि — यदि बहुश्रुतानां पार्श्वे ज्ञानादिगुणवृद्धयर्थं स्वयं चारित्रगुणाधिका अपि वन्दनादिक्रियासु वर्तन्ते तदा दोषो नास्ति । यदि पुनः केवलं ख्यातिपूजालाभार्थं
હવે, જે શ્રમણ શ્રામણ્યે અધિક હોય તે જો પોતાનાથી હીન શ્રમણ પ્રત્યે સમાન જેવું ( – પોતાના બરોબરિયા જેવું) આચરણ કરે તો તેનો વિનાશ દર્શાવે છેઃ —
અન્વયાર્થઃ — [यदि श्रामण्ये अधिकगुणाः] જેઓ શ્રામણ્યમાં અધિક ગુણવાળા હોવા છતાં [गुणाधरैः] હીન ગુણવાળા પ્રત્યે [क्रियासु] (વંદનાદિ) ક્રિયાઓમાં [वर्तन्ते] વર્તે છે, [ते] તેઓ [मिथ्योपयुक्ताः] મિથ્યા ઉપયુક્ત થયા થકા [प्रभ्रष्टचारित्राः भवन्ति] ચારિત્રથી ભ્રષ્ટ થાય છે.