परदव्वं ते अक्खा णेव सहावो त्ति अप्पणो भणिदा ।
आत्मानमेव केवलं प्रति नियतं किल प्रत्यक्षम् । इदं तु व्यतिरिक्तास्तित्वयोगितया परद्रव्यतामुपगतैरात्मनः स्वभावतां मनागप्यसंस्पृशद्भिरिन्द्रियैरुपलभ्योपजन्यमानं न नामात्मनः प्रत्यक्षं भवितुमर्हति ।।५७।। अथेन्द्रियज्ञानं प्रत्यक्षं न भवतीति व्यवस्थापयति — परदव्वं ते अक्खा तानि प्रसिद्धान्यक्षाणीन्द्रियाणि पर- द्रव्यं भवन्ति । कस्य । आत्मनः । णेव सहावो त्ति अप्पणो भणिदा योऽसौ विशुद्धज्ञानदर्शनस्वभाव आत्मनः संबन्धी तत्स्वभावानि निश्चयेन न भणितानीन्द्रियाणि । कस्मात् । भिन्नास्तित्वनिष्पन्नत्वात् । उवलद्धं तेहि उपलब्धं ज्ञातं यत्पञ्चेन्द्रियविषयभूतं वस्तु तैरिन्द्रियैः कधं पच्चक्खं अप्पणो होदि तद्वस्तु कथं प्रत्यक्षं भवत्यात्मनो, न कथमपीति । तथैव च नानामनोरथव्याप्तिविषये प्रतिपाद्यप्रतिपादकादिविकल्प- जालरूपं यन्मनस्तदपीन्द्रियज्ञानवन्निश्चयेन परोक्षं भवतीति ज्ञात्वा किं कर्तव्यम् । सकलैकाखण्डप्रत्यक्ष-
हवे इंद्रियज्ञान प्रत्यक्ष नथी एम नक्की करे छेः — ते इंद्रियो परद्रव्य, जीवस्वभाव भाखी न तेमने; तेनाथी जे उपलब्ध ते प्रत्यक्ष कई रीत जीवने? ५७.
अन्वयार्थः — [तानि अक्षाणि] ते इन्द्रियो [परद्रव्यं] परद्रव्य छे, [आत्मनः स्वभावः इति] तेमने आत्माना स्वभावरूप [न एव भणितानि] कही नथी; [तैः] तेमना वडे [उपलब्धं] जणायेलुं [आत्मनः] आत्माने [प्रत्यक्षं] प्रत्यक्ष [कथं भवति] कई रीते होय?
टीकाः — जे केवळ आत्मा प्रति ज नियत होय ते (ज्ञान) खरेखर प्रत्यक्ष छे. आ (इंद्रियज्ञान) तो, जे भिन्न अस्तित्ववाळी होवाथी परद्रव्यपणाने पामी छे (अर्थात् परद्रव्यरूप छे) अने आत्मस्वभावपणाने जरा पण स्पर्शती नथी (अर्थात् आत्माना स्वभावरूप लेशमात्र पण नथी) एवी इंद्रियो वडे उपलब्धि करीने ( – एवी इंद्रियोना निमित्तथी पदार्थोने जाणीने) ऊपजे छे तेथी ते (इंद्रियज्ञान) आत्माने प्रत्यक्ष होई शके नहि.