व्यक्तत्वं कादाचित्कपरिणामवैचित्र्यप्रत्ययं नित्यद्रव्यस्वभावप्रतिघाताय । ततोऽस्तु शब्दः पुद्गलपर्याय एवेति ।।१३२।। अथामूर्तानां शेषद्रव्याणां गुणान् गृणाति — आगासस्सवगाहो धम्मद्दव्वस्स गमणहेदुत्तं । धम्मेदरदव्वस्स दु गुणो पुणो ठाणकारणदा ।।१३३।। कालस्स वट्टणा से गुणोवओगो त्ति अप्पणो भणिदो ।
णेया संखेवादो गुणा हि मुत्तिप्पहीणाणं ।।१३४।। जुगलं । अन्येन्द्रियविषयोऽन्येन्द्रियस्य न भवति वस्तुस्वभावादेव, रसादिविषयवत् । पुनरपि कतंभूतः । चित्तो चित्रः भाषात्मकाभाषात्मकरूपेण प्रायोगिकवैश्रसिकरूपेण च नानाप्रकारः । तच्च ‘‘सद्दो खंधप्पभवो’’ इत्यादिगाथायां पञ्चास्तिकाये व्याख्यातं तिष्ठत्यत्रालं प्रसङ्गेन ।।१३२।। अथाकाशाद्यमूर्तद्रव्याणां विशेषगुणान्प्रतिपादयति — आगासस्सवगाहो आकाशस्यावगाहहेतुत्वं, धम्मद्दव्वस्स गमणहेदुत्तं धर्मद्रव्यस्य गमनहेतुत्वं, धम्मेदरदव्वस्स दु गुणो पुणो ठाणकारणदा धर्मेतरद्रव्यस्य तु पुनः स्थानकारणतागुणो भवतीति प्रथमगाथा गता । कालस्स वट्टणा से कालस्य वर्तना स्याद्गुणः, गुणोवओगो त्ति अप्पणो भणिदो ज्ञानदर्शनोपयोगद्वयमित्यात्मनो गुणो भणितः । णेया संखेवादो गुणा हि मुत्तिप्पहीणाणं एवं संक्षेपादमूर्तद्रव्याणां गुणा ज्ञेया इति । तथाहि — सर्वद्रव्याणां साधारणमवगाहहेतुत्वं
वळी क्यांक (कोई पर्यायमां) कोई गुणनुं कादाचित्क परिणामनी विचित्रताने कारणे थतुं व्यक्तपणुं के अव्यक्तपणुं नित्यद्रव्यस्वभावनो प्रतिघात करतुं नथी (अर्थात् अनित्य परिणामने लीधे थती गुणनी प्रगटता अने अप्रगटता नित्य द्रव्यस्वभाव साथे कांई विरोध पामती नथी).
माटे शब्द पुद्गलनो पर्याय ज हो. १३२. हवे अमूर्त एवां बाकीनां द्रव्योना गुणो कहे छेः —