परमाणुर्हि द्वयादिप्रदेशानामभावादप्रदेशः, एकप्रदेशसद्भावात्प्रदेशमात्रः, स्वयमनेक- परमाणुद्रव्यात्मकशब्दपर्यायव्यक्त्यसंभवादशब्दश्च । यतश्चतुःस्पर्शपञ्चरसद्विगन्धपञ्चवर्णानाम- विरोधेन सद्भावात् स्निग्धो वा रूक्षो वा स्यात्, तत एव तस्य पिण्डपर्यायपरिणतिरूपा द्विप्रदेशादित्वानुभूतिः । अथैवं स्निग्धरूक्षत्वं पिण्डत्वसाधनम् ।।१६३।।
अथ कीद्रशं तत्स्निग्धरूक्षत्वं परमाणोरित्यावेदयति — विशेषान्तराधिकारः समाप्तः । अथ केवलपुद्गलबन्धमुख्यत्वेन नवगाथापर्यन्तं व्याख्यानं करोति । तत्र स्थलद्वयं भवति । परमाणूनां परस्परबन्धकथनार्थं ‘अपदेसो परमाणू’ इत्यादिप्रथमस्थले गाथाचतुष्टयम् । तदनन्तरं स्कन्धानां बन्धमुख्यत्वेन ‘दुपदेसादी खंधा’ इत्यादिद्वितीयस्थले गाथापञ्चकम् । एवं द्वितीयविशेषान्तराधिकारे समुदायपातनिका । अथ यद्यात्मा पुद्गलानां पिण्डं न करोति तर्हि कथं पिण्डपर्यायपरिणतिरिति प्रश्ने प्रत्युत्तरं ददाति — अपदेसो अप्रदेशः । स कः । परमाणू पुद्गलपरमाणुः । पुनरपि कथंभूतः । पदेसमेत्तो य द्वितीयादिप्रदेशाभावात् प्रदेशमात्रश्च । पुनश्च किंरूपः । सयमसद्दो य स्वयं व्यक्तिरूपेणाशब्दः । एवं विशेषणत्रयविशिष्टः सन् णिद्धो वा लुक्खो वा स्निग्धो वा रूक्षो वा यतः कारणात्संभवति ततः कारणात् दुपदेसादित्तमणुहवदि द्विप्रदेशादिरूपं बन्धमनुभवतीति । तथाहि — यथायमात्मा शुद्धबुद्धैकस्वभावेन बन्धरहितोऽपि पश्चादशुद्धनयेन स्निग्धस्थानीयरागभावेन रूक्षस्थानीयद्वेषभावेन यदा परिणमति तदा परमागमकथितप्रकारेण बन्धमनुभवति, तथा परमाणुरपि स्वभावेन बन्धरहितोऽपि यदा बन्धकारणभूतस्निग्धरूक्षगुणेन परिणतो भवति तदा पुद्गलान्तरेण सह विभावपर्यायरूपं बन्धमनुभवतीत्यर्थः ।।१६३।। अथ कीद्रशं तत्स्निग्धरूक्षत्वमिति पृष्टे प्रत्युत्तरं ददाति —
टीकाः — खरेखर परमाणु द्वि -आदि (बे, त्रण वगेरे) प्रदेशोना अभावने लीधे अप्रदेश छे, एक प्रदेशना सद्भावने लीधे प्रदेशमात्र छे अने स्वयं अनेक परमाणुद्रव्यात्मक शब्द पर्यायनी व्यक्तिना (-प्रगटताना) असंभवने लीधे अशब्द छे. (ते परमाणु) अविरोधपूर्वक चार स्पर्श, पांच रस, बे गंध अने पांच वर्णना सद्भावने लीधे स्निग्ध (चीकणो) अथवा रूक्ष (लूखो) थाय छे तेथी ज तेने *पिंडपर्यायपणे परिणतिरूप द्विप्रदेशादिपणानी अनुभूति थाय छे. आ रीते स्निग्धरूक्षपणुं पिंडपणानुं कारण छे. १६३.
हवे परमाणुने ते स्निग्ध -रूक्षपणुं केवा प्रकारनुं होय छे ते कहे छेः — प्र. ३९
*एक परमाणुने बीजा एक परमाणु साथे पिंडरूपे परिणति ते द्विप्रदेशीपणानी अनुभूति छे; एक
परमाणुने बीजा बे परमाणुओ साथे पिंडरूपे परिणति ते त्रिप्रदेशीपणानो अनुभव छे. आ प्रमाणे
परमाणु अन्य परमाणुओ साथे पिंडरूपे परिणमतां अनेकप्रदेशीपणुं अनुभवे छे.