यो हि नाम नैवं प्रतिनियतचेतनाचेतनत्वस्वभावेन जीवपुद्गलयोः स्वपरविभागं पश्यति स एवाहमिदं ममेदमित्यात्मात्मीयत्वेन परद्रव्यमध्यवस्यति मोहान्नान्यः । अतो जीवस्य परद्रव्य- प्रवृत्तिनिमित्तं स्वपरपरिच्छेदाभावमात्रमेव, सामर्थ्यात्स्वद्रव्यप्रवृत्तिनिमित्तं तदभावः ।।१८३।।
अथात्मनः किं कर्मेति निरूपयति — कुव्वं सभावमादा हवदि हि कत्ता सगस्स भावस्स । पोग्गलदव्वमयाणं ण दु कत्ता सव्वभावाणं ।।१८४।।
अथैतदेव भेदविज्ञानं प्रकारान्तरेण द्रढयति – जो णवि जाणदि एवं यः कर्ता नैव जानात्येवं पूर्वोक्तप्रकारेण । कम् । परं षड्जीवनिकायादिपरद्रव्यं, अप्पाणं निर्दोषिपरमात्मद्रव्यरूपं निजात्मानम् । किं कृत्वा । सहावमासेज्ज शुद्धोपयोगलक्षणनिजशुद्धस्वभावमाश्रित्य । कीरदि अज्झवसाणं स पुरुषः करोत्यध्यवसानं परिणामम् । केन रूपेण । अहं ममेदं ति अहं ममेदमिति । ममकाराहंकारादिरहित- परमात्मभावनाच्युतो भूत्वा परद्रव्यं रागादिकमहमिति देहादिकं ममेतिरूपेण । कस्मात् । मोहादो मोहाधीनत्वादिति । ततः स्थितमेतत्स्वपरभेदविज्ञानबलेन स्वसंवेदनज्ञानी जीवः स्वद्रव्ये रतिं परद्रव्ये
टीकाः — जे आत्मा ए रीते जीव अने पुद्गलना (पोतपोताना) निश्चित चेतनत्व अने अचेतनत्वरूप स्वभाव वडे स्व -परनो विभाग देखतो नथी, ते ज आत्मा ‘आ हुं छुं, आ मारुं छे’ एम मोहथी परद्रव्यमां पोतापणानुं अध्यवसान करे छे, बीजो नहि. आथी (एम नक्की थयुं के) जीवने परद्रव्यमां प्रवृत्तिनुं निमित्त स्वपरना ज्ञाननो अभावमात्र ज छे अने (कह्या विना पण) सामर्थ्यथी (एम नक्की थयुं के) स्वद्रव्यमां प्रवृत्तिनुं निमित्त *तेनो अभाव छे.
भावार्थः — जेने स्वपरनुं भेदविज्ञान नथी ते ज परद्रव्यमां अहंकार ममकार करे छे, भेदविज्ञानी नहि. माटे परद्रव्यमां प्रवृत्तिनुं कारण भेदविज्ञाननो अभाव ज छे अने स्वद्रव्यमां प्रवृत्तिनुं कारण भेदविज्ञान ज छे. १८३.
हवे आत्मानुं कर्म शुं छे तेनुं निरूपण करे छेः —
*तेनो अभाव = स्व -परना ज्ञानना अभावनो अभाव; स्व -परना ज्ञाननो सद्भाव.