द्रव्यं प्रतीत्य यदि वा चरणं प्रतीत्य ।।१२।।
इति तत्त्वदीपिकायां प्रवचनसारवृत्तौ श्रीमदमृतचन्द्रसूरिविरचितायां ज्ञेयतत्त्वप्रज्ञापनो नाम द्वितीयः श्रुतस्कन्धः समाप्तः ।।२।। ‘अत्थित्तणिच्छिदस्स हि’ इत्याद्येकादशगाथापर्यन्तं शुभाशुभशुद्धोपयोगत्रयमुख्यत्वेन प्रथमो विशेषान्तराधिकारस्तदनन्तरं ‘अपदेसो परमाणू पदेसमेत्तो य’ इत्यादिगाथानवकपर्यन्तं पुद्गलानां परस्परबन्धमुख्यत्वेन द्वितीयो विशेषान्तराधिकारस्ततः परं ‘अरसमरूवं’ इत्याद्येकोनविंशतिगाथापर्यन्तं जीवस्य पुद्गलकर्मणा सह बन्धमुख्यत्वेन तृतीयो विशेषान्तराधिकारस्ततश्च ‘ण चयदि जो दु ममत्तिं’ इत्यादिद्वादशगाथापर्यन्तं विशेषभेदभावनाचूलिकाव्याख्यानरूपश्चतुर्थो विशेषान्तराधिकार इत्येकाधिक- पञ्चाशद्गाथाभिर्विशेषान्तराधिकारचतुष्टयेन विशेषभेदभावनाभिधानश्चतुर्थोऽन्तराधिकारः समाप्तः ।
इति श्रीजयसेनाचार्यकृतायां तात्पर्यवृत्तौ ‘तम्हा तस्स णमाइं’ इत्यादिपञ्चत्रिंशद्गाथापर्यन्तं सामान्यज्ञेयव्याख्यानं, तदनन्तरं ‘दव्वं जीवं’ इत्याद्येकोनविंशतिगाथापर्यन्तं जीवपुद्गलधर्मादिभेदेन विशेषज्ञेयव्याख्यानं, ततश्च ‘सपदेसेहिं समग्गो’ इत्यादिगाथाष्टकपर्यन्तं सामान्यभेदभावना, ततः परं ‘अत्थित्तणिच्छिदस्स हि’ इत्याद्येकाधिक पञ्चाशद्गाथापर्यन्तं विशेषभेदभावना चेत्यन्तराधिकारचतुष्टयेन त्रयोदशाधिकशतगाथाभिः सम्यग्दर्शनाधिकारनामा ज्ञेयाधिकारापरसंज्ञो द्वितीयो महाधिकारः समाप्तः ।।२।।
[हवे श्लोक द्वारा, द्रव्य अने चरणनो संबंध बतावी, ज्ञेयतत्त्व-प्रज्ञापन नामना द्वितीय अधिकारनी अने चरणानुयोगसूचक चूलिका नामना तृतीय अधिकारनी संधि दर्शाववामां आवे छेः]
[अर्थः — ] चरण द्रव्यानुसार होय छे अने द्रव्य चरणानुसार होय छे — ए रीते ते बन्ने परस्पर अपेक्षासहित छे; तेथी कां तो द्रव्यनो आश्रय करीने अथवा तो चरणनो आश्रय करीने मुमुक्षु (ज्ञानी, मुनि) मोक्षमार्गमां आरोहण करो.
आम (श्रीमद्भगवत्कुंदकुंदाचार्यदेवप्रणीत) श्री प्रवचनसार शास्त्रनी श्रीमद् अमृतचंद्राचार्यदेवविरचित तत्त्वदीपिका नामनी टीकामां ज्ञेयतत्त्व-प्रज्ञापन नामनो द्वितीय श्रुतस्कंध समाप्त थयो.
१वसंततिलका छंद