उपधिसद्भावे हि ममत्वपरिणामलक्षणाया मूर्च्छायास्तद्विषयकर्मप्रक्रमपरिणामलक्षण- स्यारम्भस्य शुद्धात्मरूपहिंसनपरिणामलक्षणस्यासंयमस्य वावश्यम्भावित्वात्तथोपधिद्वितीयस्य पर- द्रव्यरतत्वेन शुद्धात्मद्रव्यप्रसाधकत्वाभावाच्च ऐकान्तिकान्तरङ्गच्छेदत्वमुपधेरवधार्यत एव । इदमत्र तात्पर्यमेवंविधत्वमुपधेरवधार्य स सर्वथा संन्यस्तव्यः ।।२२१।। लक्षणप्राणविनाशरूपो परजीवप्राणविनाशरूपो वा नियतं निश्चितं प्राणारम्भः प्राणवधो विद्यते, न केवलं प्राणारम्भः, विक्खेवो तस्स चित्तम्मि अविक्षिप्तचित्तपरमयोगरहितस्य सपरिग्रहपुरुषस्य विक्षेपस्तस्य विद्यते चित्ते मनसीति । इति द्वितीयगाथा । गेण्हइ स्वशुद्धात्मग्रहणशून्यः सन् गृह्णाति किमपि बहिर्द्रव्यं; विधुणइ कर्मधूलिं विहाय बहिरङ्गधूलिं विधूनोति विनाशयति; धोवइ निर्मलपरमात्मतत्त्वमलजनकरागादिमलं विहाय बहिरङ्गमलं धौति प्रक्षालयति; सोसेइ जदं तु आदवे खित्ता निर्विकल्पध्यानातपेन संसारनदी- शोषणमकुर्वन् शोषयति शुष्कं करोति यतं तु यत्नपरं तु यथा भवति । किं कृत्वा । आतपे निक्षिप्य । किं तत् । पत्तं व चेलखंडं पात्रं वस्त्रखण्डं वा । बिभेदि निर्भयशुद्धात्मतत्त्वभावनाशून्यः सन् बिभेति भयं करोति । कस्मात्सकाशात् । परदो य परतश्चौरादेः । पालयदि परमात्मभावनां न पालयन्न रक्षन्परद्रव्यं किमपि पालयतीति तृतीयगाथा ।।“१७ – १९।। अथ सपरिग्रहस्य नियमेन चित्तशुद्धिर्नश्यतीति विस्तरेणाख्याति — किध तम्हि णत्थि मुच्छा परद्रव्यममत्वरहितचिच्चमत्कारपरिणतेर्विसदृशा मूर्च्छा कथं
अन्वयार्थः — [तस्मिन्] उपधिना सद्भावमां [तस्य] तेने (भिक्षुने) [मूर्च्छा] मूर्छा, [आरम्भः] आरंभ [वा] के [असंयमः] असंयम [नास्ति] न होय [कथं] ए केम बने? (न ज बने.) [तथा] तथा [परद्रव्ये रतः] जे परद्रव्यमां रत होय ते [आत्मानं] आत्माने [कथं] कई रीते [प्रसाधयति] साधे?
टीकाः — उपधिना सद्भावमां, (१) ममत्व -परिणाम जेनुं लक्षण छे एवी मूर्छा, (२) उपधि संबंधी *कर्मप्रक्रमना परिणाम जेनुं लक्षण छे एवो आरंभ, अथवा (३) शुद्धात्मस्वरूपनी हिंसारूप परिणाम जेनुं लक्षण छे एवो असंयम ( – ए त्रणे) अवश्यंभावी होय छे; तथा उपधि जेनुं द्वितीय होय तेने (अर्थात् आत्माथी अन्य एवो परिग्रह जेणे ग्रहण कर्यो होय तेने) परद्रव्यमां रतपणाने लीधे शुद्धात्मद्रव्यना साधकपणानो अभाव होय छे; तेथी उपधिने एकांतिक अंतरंगछेदपणुं नक्की थाय ज छे.
आ अहीं तात्पर्य छे के — ‘उपधि आवो छे (अर्थात् परिग्रह ते अंतरंग छेद ज छे)’ एम नक्की करीने तेने सर्वथा छोडवो. २२१.
४०६प्रवचनसार[ भगवानश्रीकुंदकुंद-
*कर्मप्रक्रम = काममां जोडावुं ते; कामनी व्यवस्था.