छेदो जेण ण विज्जदि गहणविसग्गेसु सेवमाणस्स । समणो तेणिह वट्टदु कालं खेत्तं वियाणित्ता ।।२२२।।
आत्मद्रव्यस्य द्वितीयपुद्गलद्रव्याभावात्सर्व एवोपधिः प्रतिषिद्ध इत्युत्सर्गः । अयं तु नास्ति, अपि त्वस्त्येव । क्व । तस्मिन् परिग्रहाकाङ्क्षितपुरुषे । आरंभो वा मनोवचनकायक्रियारहित- परमचैतन्यप्रतिबन्धक आरम्भो वा कथं नास्ति, किन्त्वस्त्येव; असंजमो तस्स शुद्धात्मानुभूतिविलक्षणा- संयमो वा कथं नास्ति, किन्त्वस्त्येव तस्य सपरिग्रहस्य । तध परदव्वम्मि रदो तथैव निजात्मद्रव्यात्परद्रव्ये रतः कधमप्पाणं पसाधयदि स तु सपरिग्रहपुरुषः कथमात्मानं प्रसाधयति, न कथमपीति ।।२२१।। एवं श्वेताम्बरमतानुसारिशिष्यसम्बोधनार्थं निर्ग्रन्थमोक्षमार्गस्थापनमुख्यत्वेन प्रथमस्थले गाथापञ्चकं गतम् । अथ कालापेक्षया परमोपेक्षासंयमशक्त्यभावे सत्याहारसंयमशौचज्ञानोपकरणादिकं किमपि ग्राह्यमित्यपवादमुपदिशति — छेदो जेण ण विज्जदि छेदो येन न विद्यते । येनोपकरणेन शुद्धोपयोग- लक्षणसंयमस्य छेदो विनाशो न विद्यते । कयोः । गहणविसग्गेसु ग्रहणविसर्गयोः । यस्योप- करणस्यान्यवस्तुनो वा ग्रहणे स्वीकारे विसर्जने त्यागे । किं कुर्वतः तपोधनस्य । सेवमाणस्स तदुपकरणं सेवमानस्य । समणो तेणिह वट्टदु कालं खेत्तं वियाणित्ता श्रमणस्तेनोपकरणेनेह लोके वर्तताम् । किं कृत्वा । कालं क्षेत्रं च विज्ञायेति । अयमत्र भावार्थः – कालं पञ्चमकालं शीतोष्णादिकालं वा, क्षेत्रं भरतक्षेत्रं मानुषजाङ्गलादिक्षेत्रं वा, विज्ञाय येनोपकरणेन स्वसंवित्तिलक्षणभावसंयमस्य बहिरङ्गद्रव्यसंयमस्य वा छेदो न भवति तेन वर्तत इति ।।२२२।। अथ पूर्वसूत्रोदितोपकरणस्वरूपं दर्शयति — अप्पडिकुट्ठं उवधिं
हवे, ‘कोईने क्यांक क्यारेक कोई प्रकारे कोइक उपधि अनिषिद्ध पण छे’ एवो अपवाद उपदेशे छेः —
अन्वयार्थः — [ग्रहणविसर्गेषु] जे उपधिने (आहार -नीहारादिनां) ग्रहण -विसर्जनमां सेवतां [येन] जेनाथी [सेवमानस्य] सेवनारने [छेदः] छेद [न विद्यते] थतो नथी, [तेन] ते उपधि सहित, [कालं क्षेत्रं विज्ञाय] काळक्षेत्रने जाणीने, [इह] आ लोकमां [श्रमणः] श्रमण [वर्तताम्] भले वर्तो.
टीकाः — आत्मद्रव्यने द्वितीय पुद्गलद्रव्यनो अभाव होवाथी बधोय उपधि निषिद्ध