अत्र श्रामण्यपर्यायसहकारिकारणत्वेनाप्रतिषिध्यमानेऽत्यन्तमुपात्तदेहेऽपि परद्रव्यत्वात् परिग्रहोऽयं न नामानुग्रहार्हः किन्तूपेक्ष्य एवेत्यप्रतिकर्मत्वमुपदिष्टवन्तो भगवन्तोऽर्हद्देवाः । अथ तत्र शुद्धात्मतत्त्वोपलम्भसम्भावनरसिकस्य पुंसः शेषोऽन्योऽनुपात्तः परिग्रहो वराकः किं नाम स्यादिति व्यक्त एव हि तेषामाकूतः । अतोऽवधार्यते उत्सर्ग एव वस्तुधर्मो, न पुनरपवादः । इदमत्र तात्पर्यं, वस्तुधर्मत्वात्परमनैर्ग्रन्थ्यमेवावलम्ब्यम् ।।२२४।। णिप्पडिकम्मत्तमुद्दिट्ठा निःप्रतिकर्मत्वमुपदिष्टवन्तः । शुद्धोपयोगलक्षणपरमोपेक्षासंयमबलेन देहेऽपि निःप्रतिकारित्वं कथितवन्त इति। ततो ज्ञायते मोक्षसुखाभिलाषिणां निश्चयेन देहादिसर्वसङ्गपरित्याग एवोचितोऽन्यस्तूपचार एवेति ।।२२४।। एवमपवादव्याख्यानरूपेण द्वितीयस्थले गाथात्रयं गतम् । अथैकादशगाथापर्यन्तं स्त्रीनिर्वाणनिराकरणमुख्यत्वेन व्याख्यानं करोति । तद्यथा — श्वेताम्बरमतानुसारी शिष्यः पूर्वपक्षं करोति —
अन्वयार्थः — [अथ] जो [जिनवरेन्द्राः] जिनवरेंद्रोए [अपुनर्भवकामिनः] मोक्षना अभिलाषीने, [सङ्गः इति] ‘देह परिग्रह छे’ एम कहीने, [देहे अपि] देहमां पण [अप्रतिकर्मत्वम्] अप्रतिकर्मपणुं (संस्काररहितपणुं) [उद्दिष्टवन्तः] उपदेश्युं छे, तो पछी [किं किञ्चनम् इति तर्कः] तेमनो एवो आशय छे के तेने अन्य परिग्रह तो शानो होय?
टीकाः — अहीं, श्रामण्यपर्यायनुं सहकारी कारण होवाथी जेनो निषेध करवामां आव्यो नथी एवा अत्यंत १उपात्त देहमां पण, ‘आ (देह) परद्रव्य होवाथी परिग्रह छे, खरेखर ते अनुग्रहयोग्य नथी पण उपेक्षायोग्य ज छे’ एम कहीने, भगवंत अर्हंतदेवोए अप्रतिकर्मपणुं उपदेश्युं छे; तो पछी त्यां शुद्धात्मतत्त्वनी उपलब्धिनी संभावनाना रसिक पुरुषने शेष अन्य २अनुपात्त परिग्रह बिचारो शानो होय — एवो तेमनो ( – अर्हंतदेवोनो) आशय व्यक्त ज छे. आथी नक्की थाय छे के — उत्सर्ग ज वस्तुधर्म छे, अपवाद नहि.
आ अहीं तात्पर्य छे के वस्तुधर्म होवाथी परम निर्ग्रंथपणुं ज अवलंबवायोग्य छे. २२४.
४१०प्रवचनसार[ भगवानश्रीकुंदकुंद-
१. उपात्त = प्राप्त; मळेलो. २. अनुपात्त = अप्राप्त