यः किलोपधिः सर्वथा बन्धासाधकत्वादप्रतिक्रुष्टः, संयमादन्यत्रानुचितत्वादसंयतजना- प्रार्थनीयो, रागादिपरिणाममन्तरेण धार्यमाणत्वान्मूर्च्छादिजननरहितश्च भवति, स खल्वप्रतिषिद्धः । अतो यथोदितस्वरूप एवोपधिरुपादेयो, न पुनरल्पोऽपि यथोदितविपर्यस्तस्वरूपः ।।२२३।।
अथोत्सर्ग एव वस्तुधर्मो, न पुनरपवाद इत्युपदिशति — किं किंचण त्ति तक्कं अपुणब्भवकामिणोध देहे वि ।
संग त्ति जिणवरिंदा अप्पडिकम्मत्तमुद्दिट्ठा ।।२२४।। परमात्मद्रव्यविलक्षणबहिर्द्रव्यममत्वरूपमूर्च्छारक्षणार्जनसंस्कारादिदोषजननरहितम्, गेण्हदु समणो जदि वि अप्पं गृह्णातु श्रमणो यमप्यल्पं पूर्वोक्तमुपकरणोपधिं यद्यप्यल्पं तथापि पूर्वोक्तोचितलक्षणमेव ग्राह्यं, न च तद्विपरीतमधिकं वेत्यभिप्रायः ।।२२३।। अथ सर्वसङ्गपरित्याग एव श्रेष्ठः, शेषमशक्यानुष्ठानमिति प्ररूपयति — किं किंचण त्ति तक्कं किं किंचनमिति तर्कः, किं किंचनं परिग्रह इति तर्को विचारः क्रियते तावत् । कस्य । अपुणब्भवकामिणो अपुनर्भवकामिनः अनन्तज्ञानादिचतुष्टयात्मकमोक्षाभिलाषिणः । अध अहो, देहो वि देहोऽपि संग त्ति सङ्गः परिग्रह इति हेतोः जिणवरिंदा जिनवरेन्द्राः कर्तारः
अन्वयार्थः — [यद्यपि अल्पम्] भले थोडो होय तोपण, [अप्रतिक्रुष्टम्] जे अनिंदित होय, [असंयतजनैः अप्रार्थनीयं] असंयत जनोथी अप्रार्थनीय होय अने [मूर्च्छादिजननरहितं] जे मूर्च्छादिना जनन रहित होय — [उपधिं] एवा ज उपधिने [श्रमणः] श्रमण [गृह्णातु] ग्रहण करो.
टीकाः — जे उपधि सर्वथा बंधनो असाधक होवाथी अनिंदित छे, संयम सिवाय अन्यत्र अनुचित होवाथी असंयत जनो वडे *अप्रार्थनीय छे अने रागादिपरिणाम विना धारण करवामां आवतो होवाथी मूर्छादिना उत्पादन रहित छे, ते खरेखर अनिषिद्ध छे. आथी यथोक्त स्वरूपवाळो उपधि ज उपादेय छे, परंतु थोडो पण यथोक्त स्वरूपथी विपरीत स्वरूपवाळो उपधि उपादेय नथी. २२३.
हवे, ‘उत्सर्ग ज वस्तुधर्म छे, अपवाद नहि’ एम उपदेशे छेः —
*अप्रार्थनीय = नहि इच्छवायोग्य; अनिच्छित.