Pravachansar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 414 of 513
PDF/HTML Page 445 of 544

 

गुरुगीर्यमाणात्मतत्त्वद्योतकसिद्धोपदेशवचनपुद्गलाः, तथाधीयमाननित्यबोधकानादिनिधनशुद्धात्म- तत्त्वद्योतनसमर्थश्रुतज्ञानसाधनीभूतशब्दात्मकसूत्रपुद्गलाश्च, शुद्धात्मतत्त्वव्यञ्जकदर्शनादिपर्याय- मल्लितीर्थकरः स्त्रीति कथ्यते, तदप्ययुक्तम् तीर्थकरा हि सम्यग्दर्शनविशुद्धयादिषोडशभावनाः पूर्वभवे भावयित्वा पश्चाद्भवन्ति सम्यग्द्रष्टेः स्त्रीवेदकर्मणो बन्ध एव नास्ति, कथं स्त्री भविष्यतीति किंच यदि मल्लितीर्थकरो वान्यः कोऽपि वा स्त्री भूत्वा निर्वाणं गतः तर्हि स्त्रीरूपप्रतिमाराधना किं न क्रियते भवद्भिः यदि पूर्वोक्तदोषाः सन्ति स्त्रीणां तर्हि सीतारुक्मिणीकुन्तीद्रौपदीसुभद्राप्रभृतयो जिनदीक्षां गृहीत्वा विशिष्टतपश्चरणेन कथं षोडशस्वर्गे गता इति चेत् परिहारमाहतत्र दोषो नास्ति, तस्मात्स्वर्गादागत्य पुरुषवेदेन मोक्षं यास्यन्त्यग्रे तद्भवमोक्षो नास्ति, भवान्तरे भवतु, को दोष इति इदमत्र तात्पर्यम्स्वयं वस्तुस्वरूपमेव ज्ञातव्यं, परं प्रति विवादो न कर्तव्यः कस्मात् विवादे रागद्वेषोत्पत्तिर्भवति, ततश्च शुद्धात्मभावना नश्यतीति ।।“२७।। अथोपसंहाररूपेण स्थितपक्षं दर्शयति

तम्हा तं पडिरूवं लिंगं तासिं जिणेहिं णिद्दिट्ठं
कुलरूववओजुत्ता समणीओ तस्समाचारा ।।“२८।।

तम्हा यस्मात्तद्भवे मोक्षो नास्ति तस्मात्कारणात् तं पडिरूवं लिंगं तासिं जिणेहिं णिद्दिट्ठं तत्प्रतिरूपं वस्त्रप्रावरणसहितं लिङ्गं चिह्नं लाञ्छनं तासां स्त्रीणां जिनवरैः सर्वज्ञैर्निर्दिष्टं कथितम् कुलरूववओजुत्ता समणीओ लोकदुगुञ्छारहितत्वेन जिनदीक्षायोग्यं कुलं भण्यते, अन्तरङ्गनिर्विकारचित्तशुद्धिज्ञापकं बहिरङ्गनिर्विकारं रूपं भण्यते, शरीरभङ्गरहितं वा अतिबालवृद्धबुद्धिवैकल्यरहितं वयो भण्यते, तैः कुलरूपवयोभिर्युक्ताः कुलरूपवयोयुक्ता भवन्ति काः श्रमण्योऽर्जिकाः पुनरपि किंविशिष्टाः तस्समाचारा तासां स्त्रीणां योग्यस्तद्योग्य आचारशास्त्रविहितः समाचार आचार आचरणं यासां तास्तत्समाचारा इति ।।“२८।। अथेदानीं पुरुषाणां दीक्षाग्रहणे वर्णव्यवस्थां कथयति


कायपुद्गलो; (२) जेमनुं श्रवण करवामां आवे छे एवां, तत्काळबोधक, गुरु वडे कहेवामां आवतां, आत्मतत्त्वद्योतक, सिद्ध उपदेशरूप वचनपुद्गलो; तेम ज (३) जेमनुं अध्ययन करवामां आवे छे एवां, नित्यबोधक, अनादिनिधन शुद्ध आत्मतत्त्वने प्रकाशवामां समर्थ श्रुतज्ञानना साधनभूत, शब्दात्मक सूत्रपुद्गलो; अने (४) शुद्ध आत्मतत्त्वने व्यक्त करनार दर्शनादिक जे पर्यायो ते -रूपे परिणमेला पुरुष प्रत्ये विनीततानो अभिप्राय प्रवर्तावनारां

४१प्रवचनसार[ भगवानश्रीकुंदकुंद-

१. तत्काळबोधक = ते काळे ज (उपदेशकाळे ज) बोध देनारां. [शास्त्रशब्दो सदा बोधनां निमित्तभूत होवाथी नित्यबोधक कहेवामां आव्या छे; गुरुवचनो उपदेशकाळे ज बोधनां निमित्तभूत होवाथी
तत्काळबोधक कहेवामां आव्यां छे.]

२. आत्मतत्त्वद्योतक = आत्मतत्त्वने समजावनारांप्रकाशनारां

३. सिद्ध = सफळ; रामबाण; अमोघ; अचूक. [गुरुनो उपदेश सिद्धसफळरामबाण छे.]

४. विनीतता = विनय; नम्रता. [सम्यग्दर्शनादि पर्याये परिणमेला पुरुष प्रत्ये विनयभावे प्रवर्तवामां मननां पुद्गलो निमित्तभूत छे.]