बालवृद्धश्रान्तग्लानेनापि संयमस्य शुद्धात्मतत्त्वसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात्तथा संयतस्य स्वस्य योग्यमतिकर्कशमेवाचरणमाचरणीयमित्युत्सर्गः । बालवृद्धश्रान्तग्लानेन शरीरस्य शुद्धात्मतत्त्वसाधनभूतसंयमसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात्तथा बालवृद्ध- श्रान्तग्लानस्य स्वस्य योग्यं मृद्वेवाचरणमाचरणीयमित्यपवादः । बालवृद्धश्रान्तग्लानेन संयमस्य शुद्धात्मतत्त्वसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात्तथा संयतस्य स्वस्य योग्यमति- कर्कशमाचरणमाचरता शरीरस्य शुद्धात्मतत्त्वसाधनभूतसंयमसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात् तथा बालवृद्धश्रान्तग्लानस्य स्वस्य योग्यं मृद्वप्याचरणमाचरणीयमित्यपवादसापेक्ष उत्सर्गः । बालवृद्धश्रान्तग्लानेन शरीरस्य शुद्धात्मतत्त्वसाधनभूतसंयमसाधनत्वेन मूलभूतस्य छेदो न यथा
अप्पडिकुट्ठं पिंडं पाणिगयं णेव देयमण्णस्स अप्रतिकृष्ट आगमाविरुद्ध आहारः पाणिगतो हस्तगतो नैव देयो, न दातव्योऽन्यस्मै, दत्ता भोत्तुमजोग्गं दत्वा पश्चाद्भोक्तुमयोग्यं, भुत्तो वा होदि पडिकुट्ठो कथंचित् भुक्तो वा, भोजनं कृतवान्, तर्हि प्रतिकृष्टो भवति, प्रायश्चित्तयोग्यो भवतीति । अयमत्र भावः — हस्तगताहारं योऽसावन्यस्मै न ददाति तस्य निर्मोहात्मतत्त्वभावनारूपं निर्मोहत्वं ज्ञायत इति ।।“३४।। अथ निश्चयव्यवहारसंज्ञयोरुत्सर्गापवादयोः कथंचित्परस्परसापेक्षभावं स्थापयन् चारित्रस्य रक्षां दर्शयति – चरदु चरतु, आचरतु । किम् । चरियं चारित्रमनुष्ठानम् । कथंभूतम् । सजोग्गं स्वयोग्यं, स्वकीयावस्थायोग्यम् । कथं यथा भवति । मूलच्छेदो जधा ण हवदि मूलच्छेदो यथा न भवति । स कः कर्ता चरति । बालो वा वुड्ढो वा समभिहदो वा पुणो गिलाणो वा बालो वा, वृद्धो वा, श्रमेणाभिहतः पीडितः श्रमाभिहतो वा, ग्लानो व्याधिस्थो वेति । तद्यथा — उत्सर्गापवादलक्षणं कथ्यते तावत् । स्वशुद्धात्मनः
टीकाः — बाळ -वृद्ध -श्रांत -ग्लाने पण (अर्थात् बाळ, वृद्ध, श्रमित के ग्लान श्रमणे पण) संयमनो — के जे (संयम) शुद्धात्मतत्त्वनुं साधन होवाथी मूळभूत छे तेनो — छेद जे रीते न थाय ते रीते, संयत एवा पोताने योग्य अति कर्कश ( – कठोर) आचरण ज आचरवुं, ए प्रमाणे उत्सर्ग छे.
बाळ -वृद्ध -श्रांत -ग्लाने (अर्थात् बाळ, वृद्ध, श्रमित के ग्लान श्रमणे) शरीरनो — के जे (शरीर) शुद्धात्मतत्त्वना साधनभूत संयमनुं साधन होवाथी मूळभूत छे तेनो — छेद जे रीते न थाय ते रीते, बाळ -वृद्ध -श्रांत -ग्लान एवा पोताने योग्य (अर्थात् बाळ, वृद्ध, श्रमित के ग्लान एवो जे पोते तेने योग्य ) मृदु (-कोमळ) आचरण ज आचरवुं, ए प्रमाणे अपवाद छे.
बाळ -वृद्ध -श्रांत -ग्लाने संयमनो — के जे शुद्धात्मतत्त्वनुं साधन होवाथी मूळभूत छे तेनो — छेद जे रीते न थाय ते रीते संयत एवा पोताने योग्य अति कर्कश आचरण आचरतां, (तेणे) शरीरनो — के जे शुद्धात्मतत्त्वना साधनभूत संयमनुं साधन होवाथी मूळभूत छे तेनो (पण) — छेद जे रीते न थाय ते रीते बाळ -वृद्ध -श्रांत -ग्लान एवा पोताने योग्य मृदु आचरण पण आचरवुं, ए प्रमाणे १अपवादसापेक्ष उत्सर्ग छे. प्र. ५४
१. अपवादसापेक्ष = अपवादनी अपेक्षा सहित