भयेनाप्रवर्तमानस्यातिकर्कशाचरणीभूयाक्रमेण शरीरं पातयित्वा सुरलोकं प्राप्योद्वान्तसमस्त- संयमामृतभारस्य तपसोऽनवकाशतयाशक्यप्रतिकारो महान् लेपो भवति, तन्न श्रेयानपवाद- निरपेक्ष उत्सर्गः । देशकालज्ञस्यापि बालवृद्धश्रान्तग्लानत्वानुरोधेनाहारविहारयोरल्पलेपत्वं विगणय्य यथेष्टं प्रवर्तमानस्य मृद्वाचरणीभूय संयमं विराध्यासंयतजनसमानीभूतस्य तदात्वे तपसोऽनवकाशतयाशक्यप्रतिकारो महान् लेपो भवति, तन्न श्रेयानुत्सर्गनिरपेक्षोऽपवादः । अतः सर्वथोत्सर्गापवादविरोधदौस्थित्यमाचरणस्य प्रतिषेध्यं, तदर्थमेव सर्वथानुगम्यश्च परस्पर- सापेक्षोत्सर्गापवादविजृम्भितवृत्तिः स्याद्वादः ।।२३१।। कृत्वा पूर्वकृतपुण्येन देवलोके समुत्पद्यते । तत्र संयमाभावान्महान् लेपो भवति । ततः कारणादपवाद- निरपेक्षमुत्सर्गं त्यजति, शुद्धात्मभावनासाधकमल्पलेपं बहुलाभमपवादसापेक्षमुत्सर्गं स्वीकरोति । तथैव च पूर्वसूत्रोक्तक्रमेणापहृतसंयमशब्दवाच्येऽपवादे प्रवर्तते तत्र च प्रवर्तमानः सन् यदि कथंचिदौषध- पथ्यादिसावद्यभयेन व्याधिव्यथादिप्रतीकारमकृत्वा शुद्धात्मभावनां न करोति तर्हि महान् लेपो भवति; अथवा प्रतीकारे प्रवर्तमानोऽपि हरीतकीव्याजेन गुडभक्षणवदिन्द्रियसुखलाम्पटयेन संयमविराधनां करोति तदापि महान् लेपो भवति । ततः कारणादुत्सर्गनिरपेक्षमपवादं त्यक्त्वा शुद्धात्मभावनारूपं शुभोपयोगरूपं वा संयममविराधयन्नौषधपथ्यादिनिमित्तोत्पन्नाल्पसावद्यमपि बहुगुणराशिमुत्सर्गसापेक्षम-
देशकालज्ञने पण, जो ते बाळ -वृद्ध -श्रांत -ग्लानत्वना अनुरोध वडे जे आहारविहार तेनाथी थता अल्प लेपना भयने लीधे तेमां न प्रवर्ते तो (अर्थात् अपवादना आश्रये थता अल्प बंधना भयने लीधे उत्सर्गनी हठ करी अपवादमां न प्रवर्ते तो), अति कर्कश आचरणरूप थइने अक्रमे शरीर पाडी नाखीने देवलोकने पामीने जेणे समस्त संयमामृतनो समूह वमी नाख्यो छे एवा तेने तपनो अवकाश नहि रहेवाथी, जेनो प्रतिकार अशक्य छे एवो महान लेप थाय छे, तेथी अपवादनिरपेक्ष उत्सर्ग श्रेय नथी.
देशकालज्ञने पण, जो ते बाळ -वृद्ध -श्रांत -ग्लानत्वना अनुरोध वडे जे आहारविहार तेनाथी थता अल्प लेपने नहि गणीने तेमां १यथेष्ट प्रवर्ते तो (अर्थात् अपवादथी थता अल्प बंध प्रत्ये बेदरकार थइने उत्सर्गरूप ध्येयने चूकीने अपवादमां स्वच्छंदे प्रवर्ते तो), मृदु आचरणरूप थइने संयम विराधीने असंयत जन समान थयेला एवा तेने ते काळे तपनो अवकाश नहि रहेवाथी, जेनो प्रतिकार अशक्य छे एवो महान लेप थाय छे, तेथी उत्सर्गनिरपेक्ष अपवाद श्रेय नथी.
आथी (एम कह्युं के) उत्सर्ग अने अपवादना विरोध वडे थतुं जे आचरणनुं दुःस्थितपणुं ते सर्वथा निषेध्य (त्याज्य) छे अने, ते अर्थे ज, परस्पर सापेक्ष एवा उत्सर्ग अने अपवाद वडे जेनी वृत्ति ( – हयाती, कार्य) प्रगट थाय छे एवो स्याद्वाद सर्वथा अनुगम्य (अनुसरवायोग्य ) छे.
४२८प्रवचनसार[ भगवानश्रीकुंदकुंद-
१. यथेष्ट = इच्छा प्रमाणे; मरजी प्रमाणे.