यदि करतलामलकीकृतसकलागमसारतया भूतभवद्भावि च स्वोचितपर्यायविशिष्टम- शेषद्रव्यजातं जानन्तमात्मानं जानन् श्रद्दधानः संयमयंश्चागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां यौगपद्येऽपि मनाङ्मोहमलोपलिप्तत्वात् यदा शरीरादिमूर्च्छोपरक्ततया निरुपरागोपयोगपरिणतं कृत्वा ज्ञानात्मानमात्मानं नानुभवति तदा तावन्मात्रमोहमलकलङ्ककीलिकाकीलितैः कर्म- भिरविमुच्यमानो न सिद्धयति । अत आत्मज्ञानशून्यमागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वयौग- पद्यमप्यकिञ्चित्करमेव ।।२३९।। संयतत्वानां यौगपद्यमप्यकिंचित्करमित्युपदिशति — परमाणुपमाणं वा मुच्छा देहादिएसु जस्स पुणो विज्जदि जदि परमाणुमात्रं वा मूर्च्छा देहादिकेषु विषयेसु यस्य पुरुषस्य पुनर्विद्यते यदि चेत्, सो सिद्धिं ण लहदि स सिद्धिं मुक्तिं न लभते । कथंभूतः । सव्वागमधरो वि सर्वागमधरोऽपीति । अयमत्रार्थः — सर्वागमज्ञान- तत्त्वार्थश्रद्धानसंयतत्वानां यौगपद्ये सति यस्य देहादिविषये स्तोकमपि ममत्वं विद्यते तस्य पूर्वसूत्रोक्तं निर्विकल्पसमाधिलक्षणं निश्चयरत्नत्रयात्मकं स्वसंवेदनज्ञानं नास्तीति ।।२३९।। अथ द्रव्यभाव- संयमस्वरूपं कथयति —
अन्वयार्थः — [पुनः] अने [यदि यस्य] जो [देहादिकेषु] देहादिक प्रत्ये [परमाणुप्रमाणं वा] परमाणु जेटली पण [मूर्च्छा] मूर्छा [विद्यते] वर्तती होय, तो [सः] ते [सर्वागमधरः अपि] भले सर्वआगमधर होय तोपण [सिद्धिं न लभते] सिद्धि पामतो नथी.
टीकाः — सकळ आगमना सारने हथेळीमां रहेला आमळा समान कर्यो होवाथी ( – हस्तामलकवत् स्पष्ट जाणतो होवाथी) जे पुरुष, भूत -वर्तमान -भावी १स्वोचित पर्यायो सहित अशेष द्रव्यसमूहने जाणनारा आत्माने जाणे छे, श्रद्धे छे अने संयमित राखे छे, ते पुरुषने आगमज्ञान-तत्त्वार्थश्रद्धान-संयतत्वनुं युगपदपणुं होवा छतां पण, जो ते पुरुष जराक मोहमळ वडे लिप्त होवाने लीधे शरीरादि प्रत्येनी मूर्छा वडे २उपरक्त रहेवाथी, मात्र तेटला (जराक) मोहमळकलंकरूप जे खीली तेनी साथे बंधायेलां कर्मोथी नहि छूटतो थको सिद्ध थतो नथी.
आथी आत्मज्ञानशून्य आगमज्ञान-तत्त्वार्थश्रद्धान-संयतत्वनुं युगपदपणुं पण अकिंचित्कर ज छे. २३९.
३निरुपराग उपयोगमां परिणत करीने ज्ञानात्मक आत्माने अनुभवतो नथी, तो ते पुरुष
१. स्वोचित = पोताने उचित; पोतपोताने योग्य. [आत्मानो स्वभाव त्रणे काळना स्वोचित पर्यायो सहित समस्त द्रव्योने जाणवानो छे.]
२. उपरक्त = मलिन; विकारी.
३. निरुपराग = उपराग विनानो; निर्मळ; निर्विकारी; शुद्ध.