अववददि सासणत्थं समणं दिट्ठा पदोसदो जो हि ।
श्रमणं शासनस्थमपि प्रद्वेषादपवदतः क्रियास्वननुमन्यमानस्य च प्रद्वेषकषायितत्वात् चारित्रं नश्यति ।।२६५।। तपोधनम् । क थंभूतम् । सासणत्थं शासनस्थं निश्चयव्यवहारमोक्षमार्गस्थम् । कस्मात् । पदोसदो निर्दोषिपरमात्मभावनाविलक्षणात् प्रद्वेषात्कषायात् । किं कृत्वा पूर्वम् । दिट्ठा दृष्टवा । न केवलं अपवदति, णाणुमण्णदि नानुमन्यते । कासु विषये । किरियासु यथायोग्यं वन्दनादिक्रियासु । हवदि हि सो भवति हि स्फु टं सः । किंविशिष्टः । णट्ठचारित्तो कथंचिदतिप्रसंगान्नष्टचारित्रो भवतीति । तथाहि — मार्गस्थतपोधनं दृष्टवा यदि कथंचिन्मात्सर्यवशाद्दोषग्रहणं करोति तदा चारित्रभ्रष्टो भवति स्फु टं; पश्चादात्मनिन्दां कृत्वा निवर्तते तदा दोषो नास्ति, कालान्तरे वा निवर्तते तथापि दोषो नास्ति । यदि पुनस्तत्रैवानुबन्धं कृत्वा तीव्रकषायवशादतिप्रसंगं करोति तदा चारित्रभ्रष्टो भवतीति । अयमत्र भावार्थः — बहुश्रुतैरल्प- श्रुततपोधनानां दोषो न ग्राह्यस्तैरपि तपोधनैः किमपि पाठमात्रं गृहीत्वा तेषां दोषो न ग्राह्यः, किंतु किमपि सारपदं गृहीत्वा स्वयं भावनैव कर्तव्या । कस्मादिति चेत् । रागद्वेषोत्पत्तौ सत्यां बहुश्रुतानां
हवे जे श्रामण्ये समान छे तेनुं अनुमोदन ( – आदर) नहि करनारनो विनाश दर्शावे छेः —
अन्वयार्थः — [यः हि] जे [शासनस्थं श्रमणं] शासनस्थ (जिनदेवना शासनमां रहेला) श्रमणने [दृष्टवा] देखीने [प्रद्वेषतः] द्वेषथी [अपवदति] तेना अपवाद बोले छे अने [क्रियासु न अनुमन्यते] (सत्कारादि) क्रियाओ करवामां अनुमत (खुशी) नथी, [सः नष्टचारित्रः हि भवति] तेनुं चारित्र नष्ट थाय छे.
टीकाः — जे श्रमण द्वेषने लीधे शासनस्थ श्रमणना पण अपवाद बोले छे अने (तेना प्रत्ये सत्कारादि) क्रियाओ करवामां अनुमत नथी, ते श्रमण द्वेष वडे *कषायित थवाथी तेनुं चारित्र नाश पामे छे. २६५.
*कषायित = कषायवाळो; विकारी; रंगायेलो.