सामायिकसंयमविकल्पत्वात् श्रमणानां मूलगुणा एव । तेषु यदा निर्विकल्पसामायिक- संयमाधिरूढत्वेनानभ्यस्तविकल्पत्वात्प्रमाद्यति तदा केवलकल्याणमात्रार्थिनः कुण्डलवलयाङ्गुली- यादिपरिग्रहः किल श्रेयान्, न पुनः सर्वथा कल्याणलाभ एवेति सम्प्रधार्य विकल्पेनात्मान- मुपस्थापयन् छेदोपस्थापको भवति ।।२०८ । २०९।।
अथास्य प्रव्रज्यादायक इव छेदोपस्थापकः परोऽप्यस्तीत्याचार्यविकल्पप्रज्ञापन- द्वारेणोपदिशति —
परमसामायिकाभिधानेन निश्चयैकव्रतेन मोक्षबीजभूतेन मोक्षे जाते सति सर्वे प्रकटा भवन्ति । तेन
कारणेन तदेव सामायिकं मूलगुणव्यक्तिकारणत्वात् निश्चयमूलगुणो भवति । यदा पुनर्निर्विकल्पसमाधौ
समर्थो न भवत्ययं जीवस्तदा यथा कोऽपि सुवर्णार्थी पुरुषः सुवर्णमलभमानस्तपर्यायानपि कुण्डलादीन् गृह्णाति, न च सर्वथा त्यागं करोति; तथायं जीवोऽपि निश्चयमूलगुणाभिधानपरमसमाध्यभावे छेदोपस्थानं चारित्रं गृह्णाति । छेदे सत्युपस्थापनं छेदोपस्थापनम् । अथवा छेदेन व्रतभेदेनोपस्थापनं छेदोपस्थापनम् । तच्च संक्षेपेण पञ्चमहाव्रतरूपं भवति । तेषां व्रतानां च रक्षणार्थं पश्चसमित्यादिभेदेन
पुनरष्टाविंशतिमूलगुणभेदा भवन्ति । तेषां च मूलगुणानां रक्षणार्थं द्वाविंशतिपरीषहजयद्वादशविध-
तपश्चरणभेदेन चतुस्त्रिंशदुत्तरगुणा भवन्ति । तेषां च रक्षणार्थं देवमनुष्यतिर्यगचेतनकृतचतुर्विधोपसर्ग-
जयद्वादशानुप्रेक्षाभावनादयश्चेत्यभिप्रायः ।।२०८।२०९।। एवं मूलोत्तरगुणकथनरूपेण द्वितीयस्थले
UbhAn bhojan ane ek vakhat AhAr — e pramANe A (aThyAvIsh), nirvikalpa sAmAyikasanyamanA vikalpo (bhedo) hovAthI shramaNonA mULaguNo ja chhe. jyAre (shramaN) nirvikalpa sAmAyikasanyamamAn ArUDhapaNAne lIdhe jemAn vikalpono abhyAs (sevan) nathI evI dashAmAnthI chyut thAy chhe, tyAre ‘kevaL suvarNamAtranA arthIne kunDaL, kankaN, vInTI vagerenun grahaN karavun (paN) shrey chhe, parantu em nathI ke (kunDaL vagerenun grahaN kadI nahi karatAn) sarvathA suvarNanI ja prApti karavI te ja shrey chhe’ em vichArIne te mULaguNomAn vikalparUpe (bhedarUpe) potAne sthApato thako chhedopasthApak thAy chhe. 208 – 209.
have Ane (shramaNane) pravrajyAdAyakanI mAphak chhedopasthApak par paN hoy chhe em, AchAryanA bhedo jaNAvavA dvArA, upadeshe chhe —
388pravachanasAr[ bhagavAnashrIkundakund-