Pravachansar-Gujarati (English transliteration). Gatha: 225.

< Previous Page   Next Page >


Page 411 of 513
PDF/HTML Page 442 of 544

 

kahAnajainashAstramALA ]
charaNAnuyogasUchak chUlikA
411
अथ केऽपवादविशेषा इत्युपदिशति

उवयरणं जिणमग्गे लिंगं जहजादरूवमिदि भणिदं

गुरुवयणं पि य विणओ सुत्तज्झयणं च णिद्दिट्ठं ।।२२५।।

पेच्छदि ण हि इह लोगं निरुपरागनिजचैतन्यनित्योपलब्धिभावनाविनाशकं ख्यातिपूजालाभरूपं प्रेक्षते न च हि स्फु टं इह लोकम् न च केवलमिह लोकं , परं च स्वात्मप्राप्तिरूपं मोक्षं विहाय स्वर्गभोगप्राप्तिरूपं परं च परलोकं च नेच्छति स कः समणिंददेसिदो धम्मो श्रमणेन्द्रदेशितो धर्मः, जिनेन्द्रोपदिष्ट इत्यर्थः धम्मम्हि तम्हि कम्हा धर्मे तस्मिन् कस्मात् वियप्पियं विकल्पितं निर्ग्रन्थलिङ्गाद्वस्त्र- प्रावरणेन पृथक्कृतम् किम् लिंगं सावरणचिह्नम् कासां संबन्धि इत्थीणं स्त्रीणामिति पूर्वपक्षगाथा ।।“२०।। अथ परिहारमाह

णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा
तम्हा तप्पडिरूवं वियप्पियं लिंगमित्थीणं ।।“२१।।

णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा निश्चयतः स्त्रीणां नरकादिगतिविलक्षणानन्त- सुखादिगुणस्वभावा तेनैव जन्मना सिद्धिर्न द्रष्टा, न कथिता तम्हा तप्पडिरूवं तस्मात्कारणात्तत्प्रतियोग्यं सावरणरूपं वियप्पियं लिंगमित्थीणं निर्ग्रन्थलिङ्गात्पृथक्त्वेन विकल्पितं कथितं लिङ्गं प्रावरणसहितं चिह्नम् कासाम् स्त्रीणामिति ।।“२१।। अथ स्त्रीणां मोक्षप्रतिबन्धकं प्रमादबाहुल्यं दर्शयति

पइडीपमादमइया एदासिं वित्ति भासिया पमदा
तम्हा ताओ पमदा पमादबहुला त्ति णिद्दिट्ठा ।।“२२।।

पइडीपमादमइया प्रकृत्या स्वभावेन प्रमादेन निर्वृत्ता प्रमादमयी का कर्त्री भवति एदासिं वित्ति एतासां स्त्रीणां वृत्तिः परिणतिः भासिया पमदा तत एव नाममालायां प्रमदाः प्रमदासंज्ञा भाषिताः स्त्रियः तम्हा ताओ पमदा यत एव प्रमदासंज्ञास्ताः स्त्रियः, तस्मात्तत एव पमादबहुला त्ति णिद्दिट्ठा निःप्रमादपरमात्मतत्त्वभावनाविनाशकप्रमादबहुला इति निर्दिष्टाः ।।“२२।। अथ तासां मोहादि- बाहुल्यं दर्शयति

संति धुवं पमदाणं मोहपदोसा भयं दुगुंछा य
चित्ते चित्ता माया तम्हा तासिं ण णिव्वाणं ।।“२३।।

have, apavAdanA kayA visheSho chhe te kahe chhe

janmyA pramANe rUp bhAkhyun upakaraN jinamArgamAn,
guruvachan ne sUtrAdhyayan, vaLI vinay paN upakaraNamAn. 225.