454pravachanasAr[ bhagavAnashrIkundakund-
तथाभूतः सन् मुच्यत एव, न तु बध्यते । अत ऐकाग्र्यस्यैव मोक्षमार्गत्वं सिद्धयेत् ।।२४४।।
— इति मोक्षमार्गप्रज्ञापनम् ।।
अथ शुभोपयोगप्रज्ञापनम् । तत्र शुभोपयोगिनः श्रमणत्वेनान्वाचिनोति —
समणा सुद्धुवजुत्ता सुहोवजुत्ता य होंति समयम्हि ।
तेसु वि सुद्धुवजुत्ता अणासवा सासवा सेसा ।।२४५।।
श्रमणाः शुद्धोपयुक्ताः शुभोपयुक्ताश्च भवन्ति समये ।
तेष्वपि शुद्धोपयुक्ता अनास्रवाः सास्रवाः शेषाः ।।२४५।।
पूर्वकं वीतरागछद्मस्थचारित्रं तदेव कार्यकारीति । कस्मादिति चेत् । तेनैव केवलज्ञानं जायते
यतस्तस्माच्चारित्रे तात्पर्यं कर्तव्यमिति भावार्थः । किंच उत्सर्गव्याख्यानकाले श्रामण्यं व्याख्यातमत्र
पुनरपि किमर्थमिति परिहारमाह — तत्र सर्वपरित्यागलक्षण उत्सर्ग एव मुख्यत्वेन च मोक्षमार्गः, अत्र
तु श्रामण्यव्याख्यानमस्ति, परं किंतु श्रामण्यं मोक्षमार्गो भवतीति मुख्यत्वेन विशेषोऽस्ति ।।२४४।। एवं
श्रामण्यापरनाममोक्षमार्गोपसंहारमुख्यत्वेन चतुर्थस्थले गाथाद्वयं गतम् । अथ शुभोपयोगिनां
सास्रवत्वाद्वयवहारेण श्रमणत्वं व्यवस्थापयति — संति विद्यन्ते । क्व । समयम्हि समये परमागमे । के
सन्ति । समणा श्रमणास्तपोधनाः । किंविशिष्टाः । सुद्धुवजुत्ता शुद्धोपयोगयुक्ताः शुद्धोपयोगिन इत्यर्थः ।
सुहोवजुत्ता य न केवलं शुद्धोपयोगयुक्ताः, शुभोपयोगयुक्ताश्र्च । चकारोऽत्र अन्वाचयार्थे गौणार्थे
karato nathI; ane evo ( – amohI, arAgI, adveShI) vartato thako mukAy ja chhe, parantu
bandhAto nathI.
AthI ekAgratAne ja mokShamArgapaNun siddha thAy chhe. 244.
A rIte
A rIte
mokShamArga -pragnApan samApta thayun.
have shubhopayoganun pragnApan kare chhe. temAn (pratham), shubhopayogIone shramaN tarIke gauNapaNe darshAve chhe —
shuddhopayogI shramaN chhe, shubhayukta paN shAstre kahyA;
shuddhopayogI chhe nirAsrav, sheSh sAsrav jANavA. 245.
anvayArtha — [समये] shAstrane viShe (em kahyun chhe ke), [शुद्धोपयुक्ताः श्रमणाः] shuddhopayogI te shramaN chhe, [शुभोपयुक्ताः च भवन्ति] shubhopayogI paN shramaN chhe; [तेषु अपि] temAny, [शुद्धोपयुक्ताः अनास्रवाः] shuddhopayogI nirAsrav chhe, [शेषाः सास्रवाः] bAkInA sAsrav chhe (arthAt shubhopayogI Asrav sahit chhe).