गम्यमानत्वात् । गुणत्वे वा, न तावदमूर्तद्रव्यगुणः शब्दः, गुणगुणिनोरविभक्तप्रदेशत्वेनैकवेदन- वेद्यत्वादमूर्तद्रव्यस्यापि श्रवणेन्द्रियविषयत्वापत्तेः । पर्यायलक्षणेनोत्खातगुणलक्षणत्वान्मूर्तद्रव्य- गुणोऽपि न भवति । पर्यायलक्षणं हि कादाचित्कत्वं गुणलक्षणं तु नित्यत्वम् । ततः कादाचित्कत्वोत्खातनित्यत्वस्य न शब्दस्यास्ति गुणत्वम् । यत्तु तत्र नित्यत्वं तत्तदारम्भक- पुद्गलानां तद्गुणानां च स्पर्शादीनामेव, न शब्दपर्यायस्येति दृढतरं ग्राह्यम् । न च पुद्गल- गाथाकथितक्रमेण परमाणुलक्षणसूक्ष्मस्वरूपादेः पृथ्वीस्कन्धलक्षणस्थूलस्वरूपपर्यन्तस्य च । तथाहि — यथानन्तज्ञानादिचतुष्टयं विशेषलक्षणभूतं यथासंभवं सर्वजीवेषु साधारणं तथा वर्णादिचतुष्टयं विशेष- लक्षणभूतं यथासंभवं सर्वपुद्गलेषु साधारणम् । यथैव चानन्तज्ञानादिचतुष्टयं मुक्तजीवेऽतीन्द्रियज्ञान- विषयमनुमानगम्यमागमगम्यं च, तथा शुद्धपरमाणुद्रव्ये वर्णादिचतुष्टयमप्यतीन्द्रियज्ञानविषयमनुमान- गम्यमागमगम्यं च । यथा वानन्तचतुष्टयस्य संसारिजीवे रागादिस्नेहनिमित्तेन कर्मबन्धवशादशुद्धत्वं भवति तथा वर्णादिचतुष्टयस्यापि स्निग्धरूक्षगुणनिमित्तेन द्वि -अणुकादिबन्धावस्थायामशुद्धत्वम् । यथा वानन्तज्ञानादिचतुष्टयस्य रागादिस्नेहरहितशुद्धात्मध्यानेन शुद्धत्वं भवति तथा वर्णादिचतुष्टयस्यापि स्निग्धगुणाभावे बन्धनेऽसति परमाणुपुद्गलावस्थायां शुद्धत्वमिति । सद्दो सो पोग्गलो यस्तु शब्दः स
[shabdane (paryāy nahi mānatān) guṇ mānavāmān āve to te kaī rīte yogya nathī tenun samādhānaḥ — ]
pratham to, shabda amūrta dravyano guṇ nathī kem ke guṇ -guṇīne abhinna pradeshapaṇun hovāne līdhe teo (guṇ -guṇī) 1ek vedanathī vedya hovāthī amūrta dravyane paṇ shravaṇendriyanā viṣhayabhūtapaṇun āvī paḍe.
(bījun, shabdamān) paryāyanā lakṣhaṇ vaḍe guṇanun lakṣhaṇ utthāpit thatun hovāthī shabda mūrta dravyano guṇ paṇ nathī. paryāyanun lakṣhaṇ kādāchitkapaṇun (anityapaṇun) chhe ane guṇanun lakṣhaṇ nityapaṇun chhe; māṭe (shabdamān) kādāchitkapaṇā vaḍe nityapaṇun utthāpit thatun hovāthī (arthāt shabda koik vār ja thato hovāthī ane nitya nahi hovāthī) shabda te guṇ nathī. je tyān nityapaṇun chhe te tene (shabdane) utpanna karanārān pudgalonun ane temanā sparshādik guṇonun ja chhe, shabdaparyāyanun nahi — em ati draḍhapaṇe grahaṇ karavun.
1. ek vedanathī vedya = ek gnānathī jaṇāvāyogya. (naiyāyiko shabdane ākāshano guṇ māne chhe paṇ
te mānyatā apramāṇ chhe. guṇ -guṇīnā pradesho abhinna hoy chhe, tethī guṇ je indriyathī jaṇāy
te ja indriyathī guṇī paṇ jaṇāvo joīe. shabda karṇendriyathī jaṇāy chhe māṭe ākāsh paṇ karṇendriyathī
jaṇāvun joie. paṇ ākāsh to koi indriyathī jaṇātun nathī. māṭe shabda ākāsh vagere amūrtik
dravyono guṇ nathī.)