Pravachansar-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 19 of 513
PDF/HTML Page 50 of 544

 

kahānajainashāstramāḷā ]    gnānatattva    -pragnāpan    19    
अशुभोदयेनात्मा कुनरस्तिर्यग्भूत्वा नैरयिकः
दुःखसहस्रैः सदा अभिद्रुतो भ्रमत्यत्यन्तम् ।।१२।।

यदायमात्मा मनागपि धर्मपरिणतिमनासादयन्नशुभोपयोगपरिणतिमालम्बते तदा कुमनुष्यतिर्यङ्नारकभ्रमणरूपं दुःखसहस्रबन्धमनुभवति ततश्चारित्रलवस्याप्यभावादत्यन्तहेय एवायमशुभोपयोग इति ।।१२।।

एवमयमपास्तसमस्तशुभाशुभोपयोगवृत्तिः शुद्धोपयोगवृत्तिमात्मसात्कुर्वाणः शुद्धोपयोगा- धिकारमारभते तत्र शुद्धोपयोगफलमात्मनः प्रोत्साहनार्थमभिष्टौति पूर्वमनाकुलत्वलक्षणपारमार्थिकसुखविपरीतमाकुलत्वोत्पादकं स्वर्गसुखं लभते पश्चात् परम- समाधिसामग्रीसद्भावे मोक्षं च लभते इति सूत्रार्थः ।।११।। अथ चारित्रपरिणामासंभवादत्यन्त- हेयस्याशुभोपयोगस्य फलं दर्शयति ---असुहोदएण अशुभोदयेन आदा आत्मा कुणरो तिरियो भवीय णेरइयो कुनरस्तिर्यङ्नारको भूत्वा किं करोति दुक्खसहस्सेहिं सदा अभिद्दुदो भमदि अच्चंतं दुःखसहस्रैः सदा सर्वकालमभिद्रुतः कदर्थितः पीडितः सन् संसारे अत्यन्तं भ्रमतीति तथाहि ---निर्विकारशुद्धात्म- तत्त्वरुचिरूपनिश्चयसम्यक्त्वस्य तत्रैव शुद्धात्मन्यविक्षिप्तचित्तवृत्तिरूपनिश्चयचारित्रस्य च विलक्षणेन विपरीताभिनिवेशजनकेन द्रष्टश्रुतानुभूतपञ्चेन्द्रियविषयाभिलाषतीव्रसंक्लेशरूपेण चाशुभोपयोगेन यदुपार्जितं पापकर्म तदुदयेनायमात्मा सहजशुद्धात्मानन्दैकलक्षणपारमार्थिकसुखविपरीतेन दुःखेन दुःखितः सन् स्वस्वभावभावनाच्युतो भूत्वा संसारेऽत्यन्तं भ्रमतीति तात्पर्यार्थः एवमुपयोगत्रय- फलकथनरूपेण चतुर्थस्थले गाथाद्वयं गतम् ।।१२।। अथ शुभाशुभोपयोगद्वयं निश्चयनयेन हेयं ज्ञात्वा शुद्धोपयोगाधिकारं प्रारभमाणः, शुद्धात्मभावनामात्मसात्कुर्वाणः सन् जीवस्य प्रोत्साहनार्थं शुद्धो- पयोगफलं प्रकाशयति अथवा द्वितीयपातनीका --यद्यपि शुद्धोपयोगफलमग्रे ज्ञानं सुखं च संक्षेपेण

anvayārthaḥ[अशुभोदयेन] ashubh udayathī [आत्मा] ātmā [कुनरः] kumanuṣhya (halako manuṣhya), [तिर्यग्] tiryañch [नैरयिकः] ane nārak [भूत्वा] thaīne [दुःखसहस्रैः] hajāro duḥkhothī [सदा अभिद्रुतः] sadā pīḍit thato [अत्यंतं भ्रमति] (sansāramān) atyant bhame chhe.

ṭīkāḥjyāre ā ātmā jarā paṇ dharmapariṇatine nahi prāpta karato thako ashubhopayogapariṇatine avalambe chhe, tyāre te kumanuṣhyapaṇe, tiryañchapaṇe ane nārakapaṇe paribhramaṇarūp hajāro duḥkhonā bandhane anubhave chhe; tethī chāritranā leshamātrano paṇ abhāv hovāthī ā ashubhopayog atyant hey ja chhe. 12.

ā rīte ā (bhagavān kundakundāchāryadev) samasta shubhāshubhopayogavr̥uttine (shubh upayogarūp ane ashubh upayogarūp pariṇatine) apāsta karīne (tiraskārīne)

apāsta karavun = tiraskāravun; tarachhoḍavun; hey gaṇavun; dūr karavun; chhoḍī devun.