अथ क्रमकृतप्रवृत्त्या ज्ञानस्य सर्वगतत्वं न सिद्धयतीति निश्चिनोति — उपज्जदि जदि णाणं कमसो अट्ठे पडुच्च णाणिस्स ।
ज्ञेयभूतानां परिच्छेदका ग्राहकाः । अखण्डैकप्रतिभासमयं यन्महासामान्यं तत्स्वभावमात्मानं योऽसौ प्रत्यक्षं न जानाति स पुरुषः प्रतिभासमयेन महासामान्येन ये व्याप्ता अनन्तज्ञानविशेषास्तेषां विषयभूताः येऽनन्तद्रव्यपर्यायास्तान् कथं जानाति, न कथमपि । अथ एतदायातम् — यः आत्मानं न जानाति स सर्वं न जानातीति । तथा चोक्तम् --‘‘एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः । एको भावस्तत्त्वतो येन बुद्धः सर्वे भावास्तत्त्वतस्तेन बुद्धाः ।।’’ अत्राह शिष्य : – आत्मपरिज्ञाने सति सर्वपरिज्ञानं भवतीत्यत्र व्याख्यातं, तत्र तु पूर्वसूत्रे भणितं सर्वपरिज्ञाने सत्यात्मपरिज्ञानं भवतीति । यद्येवं तर्हि छद्मस्थानां सर्वपरिज्ञानं नास्त्यात्मपरिज्ञानं कथं भविष्यति, आत्मपरिज्ञानाभावे चात्मभावना कथं, तदभावे केवलज्ञानोत्पत्तिर्नास्तीति । परिहारमाह — परोक्षप्रमाणभूतश्रुतज्ञानेन सर्वपदार्था ज्ञायन्ते । कथमिति चेत् --लोकालोकादिपरिज्ञानं व्याप्तिज्ञानरूपेण छद्मस्थानामपि विद्यते, तच्च व्याप्तिज्ञानं परोक्षाकारेण केवलज्ञानविषयग्राहकं कथंचिदात्मैव भण्यते ।
भावार्थ : — ४८ और ४९वीं गाथामें ऐसा बताया गया है कि सबको नहीं जानता वह अपनेको नहीं जानता, और जो अपनेको नहीं जानता वह सबको नहीं जानता । अपना ज्ञान और सबका ज्ञान एक साथ ही होता है । स्वयं और सर्व — इन दोमेंसे एकका ज्ञान हो और दूसरेका न हो यह असम्भव है ।
यह कथन एकदेश ज्ञानकी अपेक्षासे नहीं किन्तु पूर्णज्ञानकी (केवलज्ञानकी) अपेक्षासे है ।।४९।।
अन्वयार्थ : — [यदि ] यदि [ज्ञानिनः ज्ञानं ] आत्माका ज्ञान [क्रमशः ] क्रमशः [अर्थान् प्रतीत्य ] पदार्थोंका अवलम्बन लेकर [उत्पद्यते ] उत्पन्न होता हो [तत् ] तो वह (ज्ञान) [ न एव नित्यं भवति ] नित्य नहीं है, [न क्षायिकं ] क्षायिक नहीं है, [न एव सर्वगतम् ] और सर्वगत नहीं है ।।५०।।
जो ज्ञान ‘ज्ञानी’नु ऊपजे क्रमशः अरथ अवलंबीने, तो नित्य नहि, क्षायिक नहि ने सर्वगत नहि ज्ञान ए .५०.