क्षायिकं हि ज्ञानमतिशयास्पदीभूतपरममाहात्म्यम् । यत्तु युगपदेव सर्वार्थानालम्ब्य
प्रवर्तते ज्ञानं तट्टंकोत्कीर्णन्यायावस्थितसमस्तवस्तुज्ञेयाकारतयाधिरोपितनित्यत्वं प्रतिपन्नसमस्त-
व्यक्तित्वेनाभिव्यक्तस्वभावभासिक्षायिकभावं त्रैकाल्येन नित्यमेव विषमीकृतां सकलामपि
सर्वार्थसंभूतिमनन्तजातिप्रापितवैचित्र्यां परिच्छिन्ददक्रमसमाक्रान्तानन्तद्रव्यक्षेत्रकालभावतया
प्रकटीकृताद्भुतमाहात्म्यं सर्वगतमेव स्यात् ।।५१।।
कृत्वा । अट्ठे पडुच्च ज्ञेयार्थानाश्रित्य । कस्य । णाणिस्स ज्ञानिनः आत्मनः । तं णेव हवदि णिच्चं
उत्पत्तिनिमित्तभूतपदार्थविनाशे तस्यापि विनाश इति नित्यं न भवति । ण खाइगं ज्ञानावरणीय-
कर्मक्षयोपशमाधीनत्वात् क्षायिकमपि न भवति । णेव सव्वगदं यत एव पूर्वोक्तप्रकारेण पराधीनत्वेन नित्यं
न भवति, क्षयोपशमाधीनत्वेन क्षायिकं च न भवति, तत एव युगपत्समस्तद्रव्यक्षेत्रकालभावानां
परिज्ञानसामर्थ्याभावात्सर्वगतं न भवति । अत एतत्स्थितं यद्ज्ञानं क्रमेणार्थान् प्रतीत्य जायते तेन
सर्वज्ञो न भवति इति ।।५०।। अथ युगपत्परिच्छित्तिरूपज्ञानेनैव सर्वज्ञो भवतीत्यावेदयति ---जाणदि
जानाति । किं कर्तृ । जोण्हं जैनज्ञानम् । कथम् । जुगवं युगपदेकसमये । अहो हि णाणस्स माहप्पं अहो
हि स्फु टं जैनज्ञानस्य माहात्म्यं पश्यताम् । किं जानाति । अर्थमित्यध्याहारः । कथंभूतम् । तिक्कालणि-
च्चविसयं त्रिकालविषयं त्रिकालगतं नित्यं सर्वकालम् । पुनरपि किंविशिष्टम् । सयलं समस्तम् । पुनरपि
कथंभूतम् । सव्वत्थसंभवं सर्वत्र लोके संभवं समुत्पन्नं स्थितम् । पुनश्च किंरूपम् । चित्तं नानाजातिभेदेन
विचित्रमिति । तथा हि --युगपत्सकलग्राहकज्ञानेन सर्वज्ञो भवतीति ज्ञात्वा किं कर्तव्यम् । ज्योतिष्क-
१. टंकोत्कीर्ण न्याय = पत्थरमें टांकीसे उत्कीर्ण आकृतिकी भाँति ।
कहानजैनशास्त्रमाला ]
ज्ञानतत्त्व -प्रज्ञापन
८७
टीका : — वास्तवमें क्षायिक ज्ञानका, सर्वोत्कृष्टताका स्थानभूत परम माहात्म्य है;
और जो ज्ञान एक साथ ही समस्त पदार्थोंका अवलम्बन लेकर प्रवृत्ति करता है वह ज्ञान —
अपनेमें समस्त वस्तुओंके ज्ञेयाकार १टंकोत्कीर्ण – न्यायसे स्थित होनेसे जिसने नित्यत्व प्राप्त
किया है और समस्त व्यक्तिको प्राप्त कर लेनेसे जिसने स्वभावप्रकाशक क्षायिकभाव प्रगट
किया है ऐसा — त्रिकालमें सदा विषम रहनेवाले (-असमान जातिरूपसे परिणमित होनेवाले)
और अनन्त प्रकारोंके कारण विचित्रताको प्राप्त सम्पूर्ण सर्व पदार्थोंके समूहको जानता हुआ,
अक्रमसे अनन्त द्रव्य -क्षेत्र -काल -भावको प्राप्त होनेसे जिसने अद्भुत माहात्म्य प्रगट किया
है ऐसा सर्वगत ही है ।
भावार्थ : — अक्रमसे प्रवर्तमान ज्ञान एक ज्ञेयसे दूसरेके प्रति नहीं बदलता इसलिये
नित्य है, अपनी समस्त शक्तियोंके प्रगट हो जानेसे क्षायिक है, ऐसे अक्रमिक ज्ञानवाला
पुरुष ही सर्वज्ञ हो सकता है । सर्वज्ञके इस ज्ञानका कोई परम अद्भुत माहात्म्य है ।।५१।।