Pravachansar (Hindi). Gatha: 54.

< Previous Page   Next Page >


Page 93 of 513
PDF/HTML Page 126 of 546

 

कहानजैनशास्त्रमाला ]
ज्ञानतत्त्व -प्रज्ञापन
९३
अथातीन्द्रियसौख्यसाधनीभूतमतीन्द्रियज्ञानमुपादेयमभिष्टौति
जं पेच्छदो अमुत्तं मुत्तेसु अदिंदियं च पच्छण्णं
सयलं सगं च इदरं तं णाणं हवदि पच्चक्खं ।।५४।।
यत्प्रेक्षमाणस्यामूर्तं मूर्तेष्वतीन्द्रियं च प्रच्छन्नम्
सकलं स्वकं च इतरत् तद्ज्ञानं भवति प्रत्यक्षम् ।।५४।।

अतीन्द्रियं हि ज्ञानं यदमूर्तं यन्मूर्तेष्वप्यतीन्द्रियं यत्प्रच्छन्नं च तत्सकलं विव्रियतेअमूर्ताभिः क्षायिकीभिरतीन्द्रियाभिश्चिदानन्दैकलक्षणाभिः शुद्धात्मशक्तिभिरुत्पन्नत्वा- दतीन्द्रियज्ञानं सुखं चात्माधीनत्वेनाविनश्वरत्वादुपादेयमिति; पूर्वोक्तामूर्तशुद्धात्मशक्तिभ्यो विलक्षणाभिः क्षायोपशमिकेन्द्रियशक्तिभिरुत्पन्नत्वादिन्द्रियजं ज्ञानं सुखं च परायत्तत्वेन विनश्वरत्वाद्धेयमिति तात्पर्यम् ।।५३।। एवमधिकारगाथया प्रथमस्थलं गतम् अथ पूर्वोक्तमुपादेयभूतमतीन्द्रियज्ञानं विशेषेण व्यक्तीकरोतिजं यदतीन्द्रियं ज्ञानं कर्तृ पेच्छदो प्रेक्षमाणपुरुषस्य जानाति किम् अमुत्तं अमूर्त- मतीन्द्रियनिरुपरागसदानन्दैकसुखस्वभावं यत्परमात्मद्रव्यं तत्प्रभृति समस्तामूर्तद्रव्यसमूहं मुत्तेसु अदिंदियं च मूर्तेषु पुद्गलद्रव्येषु यदतीन्द्रियं परमाण्वादि पच्छण्णं कालाणुप्रभृतिद्रव्यरूपेण प्रच्छन्नं व्यवहित- मन्तरितं, अलोकाकाशप्रदेशप्रभृति क्षेत्रप्रच्छन्नं, निर्विकारपरमानन्दैकसुखास्वादपरिणतिरूपपरमात्मनो वर्तमानसमयगतपरिणामास्तत्प्रभृतयो ये समस्तद्रव्याणां वर्तमानसमयगतपरिणामास्ते कालप्रच्छन्नाः, तस्यैव परमात्मनः सिद्धरूपशुद्धव्यञ्जनपर्यायः शेषद्रव्याणां च ये यथासंभवं व्यञ्जनपर्यायास्तेष्वन्त-

अब, अतीन्द्रिय सुखका साधनभूत (-कारणरूप) अतीन्द्रिय ज्ञान उपादेय है इसप्रकार उसकी प्रशंसा करते हैं :

अन्वयार्थ :[प्रेक्षमाणस्य यत् ] देखनेवालेका जो ज्ञान [अमूर्तं ] अमूर्तको, [मूर्तेषु ] मूर्त पदार्थोंमें भी [अतीन्द्रियं ] अतीन्द्रियको, [च प्रच्छन्नं ] और प्रच्छन्नको, [सकलं ] इन सबको[स्वकं च इतरत ] स्व तथा परकोदेखता है, [तद् ज्ञानं ] वह ज्ञान [प्रत्यक्षं भवति ] प्रत्यक्ष है ।।५४।।

टीका :जो अमूर्त है, जो मूर्त पदार्थोंमें भी अतीन्द्रिय है, और जो प्रच्छन्न है, उस सबकोजो कि स्व और पर इन दो भेदोंमें समा जाता है उसेअतीन्द्रिय ज्ञान अवश्य देखता

देखे अमूर्तिक, मूर्तमांय अतीन्द्रि ने, प्रच्छन्नने, ते सर्वनेपर के स्वकीयने, ज्ञान ते प्रत्यक्ष छे. ५४.

१. प्रच्छन्न = गुप्त; अन्तरित; ढका हुआ