न खलु द्रव्यात्पृथग्भूतो गुण इति वा पर्याय इति वा कश्चिदपि स्यात्; यथा सुवर्णात्पृथग्भूतं तत्पीतत्वादिकमिति वा तत्कुण्डलत्वादिकमिति वा । अथ तस्य तु द्रव्यस्य स्वरूपवृत्तिभूतमस्तित्वाख्यं यद्द्रव्यत्वं स खलु तद्भावाख्यो गुण एव भवन् किं हि द्रव्यात्पृथग्भूतत्वेन वर्तते । न वर्तत एव । तर्हि द्रव्यं सत्ताऽस्तु स्वयमेव ।।११०।।
एवंविहं सहावे दव्वं दव्वत्थपज्जयत्थेहिं ।
कृतं तथा सर्वद्रव्येषु ज्ञातव्यमिति ।।१०९।। अथ गुणपर्यायाभ्यां सह द्रव्यस्याभेदं दर्शयति — णत्थि नास्ति न विद्यते । स कः । गुणो त्ति व कोई गुण इति कश्चित् । न केवलं गुणः पज्जाओ त्तीह वा पर्यायो वेतीह । कथम् । विणा विना । किं विना । दव्वं द्रव्यम् । इदानीं द्रव्यं कथ्यते । दव्वत्तं पुण भावो द्रव्यत्वमस्तित्वम् । तत्पुनः किं भण्यते । भावः । भावः कोऽर्थः । उत्पादव्ययध्रौव्यात्मकसद्भावः । तम्हा दव्वं सयं सत्ता तस्मादभेदनयेन सत्ता स्वयमेव द्रव्यं भवतीति । तद्यथा — मुक्तात्मद्रव्ये परमावाप्तिरूपो
अन्वयार्थ : — [इह ] इस विश्वमें [गुणः इति वा कश्चित् ] गुण ऐसा कुछ [पर्यायः इति वा ] या पर्याय ऐसा कुछ [द्रव्यं विना नास्ति ] द्रव्यके बिना (-द्रव्यसे पृथक्) नहीं होता; [द्रव्यत्वं पुनः भावः ] और द्रव्यत्व वह भाव है (अर्थात् अस्तित्व गुण है); [तस्मात् ] इसलिये [द्रव्यं स्वयं सत्ता ] द्रव्य स्वयं सत्ता (अस्तित्व) है ।।११०।।
टीका : — वास्तवमें द्रव्यसे पृथग्भूत (भिन्न) ऐसा कोई गुण या ऐसी कोई पर्याय कुछ नहीं होता; जैसे — सुवर्णसे पृथग्भूत उसका पीलापन आदि या उसका कुण्डलत्वादि नहीं होता तदनुसार । अब, उस द्रव्यके स्वरूपकी वृत्तिभूत जो ‘अस्तित्व’ नामसे कहा जानेवाला द्रव्यत्व वह उसका ‘भाव’ नामसे क हा जानेवाला गुण ही होनेसे, क्या वह द्रव्यसे पृथक्रूप वर्तता है ? नहीं ही वर्तता । तब फि र द्रव्य स्वयमेव सत्ता हो ।।११०।।
अब, द्रव्यके सत् -उत्पाद और असत् -उत्पाद होनेमें अविरोध सिद्ध करते हैं : —