Pravachansar (Hindi).

< Previous Page   Next Page >


Page 2 of 513
PDF/HTML Page 35 of 546

 

background image
[अब अनेकान्तमय ज्ञानकी मंगलके लिये श्लोक द्वारा स्तुति करते हैं :]
अर्थ :
जो महामोहरूपी अंधकारसमूहको लीलामात्रमें नष्ट करता है और जगतके
स्वरूपको प्रकाशित करता है ऐसा अनेकांतमय तेज सदा जयवंत है
[ अब श्री अमृतचंद्राचार्यदेव श्लोक द्वारा अनेकांतमय जिनप्रवचनके सारभूत इस
‘प्रवचनसार’ शास्त्रकी टीका करनेकी प्रतिज्ञा करते हैं :]
अर्थ :परमानन्दरूपी सुधारसके पिपासु भव्य जीवोंके हितार्थ, तत्त्वको
(वस्तुस्वरूपको) प्रगट करनेवाली प्रवचनसारकी यह टीका रची जा रही है
( अनुष्टुभ् )
हेलोल्लुप्तमहामोहतमस्तोमं जयत्यदः
प्रकाशयज्जगत्तत्त्वमनेकान्तमयं महः ।।।।
( आर्या )
परमानन्दसुधारसपिपासितानां हिताय भव्यानाम्
क्रियते प्रकटिततत्त्वा प्रवचनसारस्य वृत्तिरियम् ।।।।
अथ प्रवचनसारव्याख्यायां मध्यमरुचिशिष्यप्रतिबोधनार्थायां मुख्यगौणरूपेणान्तस्तत्त्वबहि-
स्तत्त्वप्ररूपणसमर्थायां च प्रथमत एकोत्तरशतगाथाभिर्ज्ञानाधिकारः, तदनन्तरं त्रयोदशाधिक शतगाथाभि-
र्दर्शनाधिकारः, ततश्च सप्तनवतिगाथाभिश्चारित्राधिकारश्चेति समुदायेनैकादशाधिकत्रिशतप्रमितसूत्रैः

सम्यग्ज्ञानदर्शनचारित्ररूपेण महाधिकारत्रयं भवति
अथवा टीकाभिप्रायेण तु सम्यग्ज्ञानज्ञेयचारित्रा-
धिकारचूलिकारूपेणाधिकारत्रयम् तत्राधिकारत्रये प्रथमतस्तावज्ज्ञानाभिधानमहाधिकारमध्ये द्वासप्त-
तिगाथापर्यन्तं शुद्धोपयोगाधिकारः कथ्यते तासु द्वासप्ततिगाथासु मध्ये ‘एस सुरासुर --’ इमां
गाथामादिं कृत्वा पाठक्रमेण चतुर्दशगाथापर्यन्तं पीठिका, तदनन्तरं सप्तगाथापर्यन्तं सामान्येन सर्वज्ञ-
सिद्धिः, तदनन्तरं त्रयस्त्रिंशद्गाथापर्यन्तं ज्ञानप्रपञ्चः, ततश्चाष्टादशगाथापर्यन्तं सुखप्रपञ्चश्चेत्यन्तराधि-

कारचतुष्टयेन शुद्धोपयोगाधिकारो भवति
अथ पञ्चविंशतिगाथापर्यन्तं ज्ञानकण्डिकाचतुष्टयप्रति-
पादकनामा द्वितीयोऽधिकारश्चेत्यधिकारद्वयेन, तदनन्तरं स्वतन्त्रगाथाचतुष्टयेन चैकोत्तरशतगाथाभिः
प्रथममहाधिकारे समुदायपातनिका ज्ञातव्या
इदानीं प्रथमपातनिकाभिप्रायेण प्रथमतः पीठिकाव्याख्यानं क्रियते, तत्र पञ्चस्थलानि भवन्ति;
तेष्वादौ नमस्कारमुख्यत्वेन गाथापञ्चकं, तदनन्तरं चारित्रसूचनमुख्यत्वेन ‘संपज्जइ णिव्वाणं’ इति
प्रभृति गाथात्रयमथ शुभाशुभशुद्धोपयोगत्रयसूचनमुख्यत्वेन ‘जीवो परिणमदि’ इत्यादिगाथासूत्रद्वयमथ

तत्फलकथनमुख्यतया ‘धम्मेण परिणदप्पा’ इति प्रभृति सूत्रद्वयम्
अथ शुद्धोपयोगध्यातुः पुरुषस्य
प्रोत्साहनार्थं शुद्धोपयोगफलदर्शनार्थं च प्रथमगाथा, शुद्धोपयोगिपुरुषलक्षणकथनेन द्वितीया चेति
‘अइसयमादसमुत्थं’ इत्यादि गाथाद्वयम्
एवं पीठिकाभिधानप्रथमान्तराधिकारे स्थलपञ्चकेन
चतुर्दशगाथाभिस्समुदायपातनिका तद्यथा
प्रवचनसार[ भगवानश्रीकुंदकुंद-