ते ते कर्मत्वगताः पुद्गलकायाः पुनरपि जीवस्य ।
संजायन्ते देहा देहान्तरसंक्रमं प्राप्य ।।१७०।।
ये ये नामामी यस्य जीवस्य परिणामं निमित्तमात्रीकृत्य पुद्गलकायाः स्वयमेव
कर्मत्वेन परिणमन्ति, अथ ते ते तस्य जीवस्यानादिसंतानप्रवृत्तशरीरान्तरसंक्रान्तिमाश्रित्य
स्वयमेव च शरीराणि जायन्ते । अतोऽवधार्यते न कर्मत्वपरिणतपुद्गलद्रव्यात्मकशरीरकर्ता
पुरुषोऽस्ति ।।१७०।।
अथात्मनः शरीरत्वाभावमवधारयति —
परिणताः पोग्गलकाया पुद्गलस्कन्धाः पुणो वि जीवस्स पुनरपि भवान्तरेऽपि जीवस्य संजायंते देहा
संजायन्ते सम्यग्जायन्ते देहाः शरीराणीति । किं कृत्वा । देहंतरसंकमं पप्पा देहान्तरसंक्रमं भवान्तरं
प्राप्य लब्ध्वेति । अनेन किमुक्तं भवति — औदारिकादिशरीरनामकर्मरहितपरमात्मानमलभमानेन जीवेन
यान्युपार्जितान्यौदारिकादिशरीरनामकर्माणि तानि भवान्तरे प्राप्ते सत्युदयमागच्छन्ति, तदुदयेन
नोकर्मपुद्गला औदारिकादिशरीराकारेण स्वयमेव परिणमन्ति । ततः कारणादौदारिकादिकायानां जीवः
कर्ता न भवतीति ।।१७०।। अथ शरीराणि जीवस्वरूपं न भवन्तीति निश्चिनोति — ओरालिओ य
देहो औदारिकश्च देहः देहो वेउव्विओ य देहो वैक्रियकश्च तेजसिओ तैजसिकः आहारय
कम्मइओ आहारकः कार्मणश्च पुग्गलदव्वप्पगा सव्वे एते पञ्च देहाः पुद्गलद्रव्यात्मकाः सर्वेऽपि
कहानजैनशास्त्रमाला ]
ज्ञेयतत्त्व -प्रज्ञापन
३२३
गाथा : १७० अन्वयार्थ : — [कर्मत्वगताः ] कर्मरूप परिणत [ते ते ] वे – वे
[पुद्गलकायाः ] पुद्गलपिण्ड [देहान्त संक्रमं प्राप्य ] देहान्तररूप परिवर्तनको प्राप्त करके
[पुनः अपि ] पुनः – पुनः [जीवस्य ] जीवके [देहाः ] शरीर [संजायन्ते ] होते हैं ।।१७०।।
टीका : — जिस जीवके परिणामको निमित्तमात्र करके जो – जो यह पुद्गलकाय
स्वयमेव कर्मरूप परिणत होते हैं, वे जीवके अनादि संततिरूप (प्रवाहरूप) प्रवर्तमान देहान्तर
(भवांतर) रूप परिवर्तनका आश्रय लेकर वे – वे पुद्गलपिण्ड स्वयमेव शरीर (-शरीररूप,
शरीरके होनेमें निमित्तरूप) बनते हैं । इससे निश्चित होता है कि कर्मरूप परिणत
पुद्गलद्रव्यात्मक शरीरका कर्ता आत्मा नहीं है ।
भावार्थ : — जीवके परिणामको निमित्तमात्र करके जो पुद्गल स्वयमेव कर्मरूप
परिणत होते हैं, वे पुद्गल ही अन्य भवमें शरीरके बननेमें निमित्तभूत होते हैं, और नोकर्मपुद्गल
स्वयमेव शरीररूप परिणमित होते हैं । इसलिये शरीरका कर्ता आत्मा नहीं है ।।१७०।।
अब आत्माके शरीरपनेका अभाव निश्चित करते हैं : —