वेदानां ग्रहणं यस्येति स्त्रीपुन्नपुंसकद्रव्यभावाभावस्य । न लिंगानां धर्मध्वजानां ग्रहणं यस्येति
बहिरंगयतिलिंगाभावस्य । न लिंगं गुणो ग्रहणमर्थावबोधो यस्येति गुणविशेषानालीढ-
शुद्धद्रव्यत्वस्य । न लिंगं पर्यायो ग्रहणमर्थावबोधविशेषो यस्येति पर्यायविशेषानालीढ-
शुद्धद्रव्यत्वस्य । न लिंगं प्रत्यभिज्ञानहेतुर्ग्रहणमर्थावबोधसामान्यं यस्येति द्रव्यानालीढशुद्ध-
पर्यायत्वस्य ।।१७२।।
अथ कथममूर्तस्यात्मनः स्निग्धरूक्षत्वाभावाद्बन्धो भवतीति पूर्वपक्षयति —
च । अलिङ्गग्राह्यमिति वक्तव्ये यदलिङ्गग्रहणमित्युक्तं तत्किमर्थमिति चेत्, बहुतरार्थप्रतिपत्त्यर्थम् ।
तथाहि — लिङ्गमिन्द्रियं तेनार्थानां ग्रहणं परिच्छेदनं न करोति तेनालिङ्गग्रहणो भवति । तदपि
कस्मात् । स्वयमेवातीन्द्रियाखण्डज्ञानसहितत्वात् । तेनैव लिङ्गशब्दवाच्येन चक्षुरादीन्द्रियेणान्यजीवानां
यस्य ग्रहणं परिच्छेदनं कर्तुं नायाति तेनालिङ्गग्रहण उच्यते । तदपि कस्मात् । निर्विकारातीन्द्रिय-
स्वसंवेदनप्रत्यक्षज्ञानगम्यत्वात् । लिङ्गं धूमादि तेन धूमलिङ्गोद्भवानुमानेनाग्निवदनुमेयभूतपरपदार्थानां
ग्रहणं न करोति तेनालिङ्गग्रहण इति । तदपि कस्मात् । स्वयमेवालिङ्गोद्भवातीन्द्रियज्ञानसहितत्वात् ।
तेनैव लिङ्गोद्भवानुमानेनाग्निग्रहणवत् परपुरुषाणां यस्यात्मनो ग्रहणं परिज्ञानं कर्तुं नायाति तेनालिङ्ग-
ग्रहण इति । तदपि कस्मात् । अलिङ्गोद्भवातीन्द्रियज्ञानगम्यत्वात् । अथवा लिङ्गं चिह्नं लाञ्छनं
शिखाजटाधारणादि तेनार्थानां ग्रहणं परिच्छेदनं न क रोति तेनालिङ्गग्रहण इति । तदपि क स्मात् ।
स्वाभाविकाचिह्नोद्भवातीन्द्रियज्ञानसहितत्वात् । तेनैव चिह्नोद्भवज्ञानेन परपुरुषाणां यस्यात्मनो ग्रहणं
परिज्ञानं कर्तृं नायाति तेनालिङ्गग्रहण इति । तदपि कस्मात् । निरुपरागस्वसंवेदनज्ञानगम्यत्वादिति ।
३२८प्रवचनसार[ भगवानश्रीकुंदकुंद-
पुरुष और नपुंसक वेदोंका ग्रहण नहीं है वह अलिंगग्रहण है; इसप्रकार ‘आत्मा द्रव्यसे तथा
भावसे स्त्री, पुरुष तथा नपुंसक नहीं है’ इस अर्थकी प्राप्ति होती है (१७) लिंगोका अर्थात्
धर्मचिह्नोंका ग्रहण जिसके नहीं है वह अलिंगग्रहण है; इसप्रकार ‘आत्माके बहिरंग यतिलिंगोंका
अभाव है’ इस अर्थकी प्राप्ति होती है । (१८) लिंग अर्थात् गुण ऐसा जो ग्रहण अर्थात्
अर्थावबोध (पदार्थज्ञान) जिसके नहीं है सो अलिंगग्रहण है; इसप्रकार ‘आत्मा गुणविशेषसे
आलिंगित न होनेवाला ऐसा शुद्ध द्रव्य है’ ऐसे अर्थकी प्राप्ति होती है । (१९) लिंग अर्थात्
पर्याय ऐसा जो ग्रहण, अर्थात् अर्थावबोधविशेष जिसके नहीं है सो अलिंगग्रहण है; इसप्रकार
‘आत्मा पर्यायविशेषसे आलिंगित न होनेवाला ऐसा शुद्ध द्रव्य है’ ऐसे अर्थकी प्राप्ति होती है ।
(२०) लिंग अर्थात् प्रत्यभिज्ञानका कारण ऐसा जो ग्रहण अर्थात् अर्थावबोध सामान्य जिसके
नहीं है वह अलिंगग्रहण है; इसप्रकार ‘आत्मा द्रव्यसे नहीं आलिंगित ऐसी शुद्ध पर्याय है’ ऐसे
अर्थकी प्राप्ति होती है ।।१७२।।
अब, अमूर्त ऐसे आत्माके, स्निग्ध – रूक्षत्वका अभाव होनेसे बंध कैसे हो सकता है ?
ऐसा पूर्व पक्ष उपस्थित करते हैं : —