रागपरिणाम एवात्मनः कर्म, स एव पुण्यपापद्वैतम् । रागपरिणामस्यैवात्मा कर्ता, तस्यैवोपादाता हाता चेत्येष शुद्धद्रव्यनिरूपणात्मको निश्चयनयः । यस्तु पुद्गलपरिणाम आत्मनः कर्म, स एव पुण्यपापद्वैतं । पुद्गलपरिणामस्यात्मा कर्ता, तस्योपादाता हाता चेति सोऽशुद्धद्रव्यनिरूपणात्मको व्यवहारनयः । उभावप्येतौ स्तः, शुद्धाशुद्धत्वेनोभयथा द्रव्यस्य प्रतीयमानत्वात् । किन्त्वत्र निश्चयनयः साधकतमत्वादुपात्तः, साध्यस्य हि शुद्धत्वेन द्रव्यस्य कषायितः परिणतो रञ्जितः । कैः । मोहरागदोसेहिं निर्मोहस्वशुद्धात्मतत्त्वभावनाप्रतिबन्धिभिर्मोह- रागद्वैषैः । पुनश्च किंरूपः । कम्मरजेहिं सिलिट्ठो कर्मरजोभिः श्लिष्टः कर्मवर्गणायोग्यपुद्गलरजोभिः संश्लिष्टो बद्धः । बंधो त्ति परूविदो अभेदेनात्मैव बन्ध इति प्ररूपितः। क्व । समये परमागमे । अत्रेदं भणितं भवति – यथा वस्त्रं लोध्रादिद्रव्यैः कषायितं रञ्जितं सन्मञ्जीष्ठादिरङ्गद्रव्येण रञ्जितं सदभेदेन रक्तमित्युच्यते तथा वस्त्रस्थानीय आत्मा लोध्रादिद्रव्यस्थानीयमोहरागद्वेषैः कषायितो रञ्जितः परिणतो मञ्जीष्ठस्थानीयकर्मपुद्गलैः संश्लिष्टः संबद्धः सन् भेदेऽप्यभेदोपचारलक्षणेनासद्भूतव्यवहारेण बन्ध इत्यभिधीयते । कस्मात् । अशुद्धद्रव्यनिरूपणार्थविषयत्वादसद्भूतव्यवहारनयस्येति ।।१८८।। अथ निश्चयव्यवहारयोरविरोधं दर्शयति — एसो बंधसमासो एष बन्धसमासः । एष बहुधा पूर्वोक्त- प्रकारो रागादिपरिणतिरूपो बन्धसंक्षेपः । केषां संबन्धी । जीवाणं जीवानाम् । णिच्छयेण णिद्दिट्ठो निश्चयनयेन निर्दिष्टः कथितः । कैः कर्तृभूतैः । अरहंतेहिं अर्हद्भिः निर्दोषिपरमात्मभिः । केषाम् ।
अन्वयार्थ : — [एषः ] यह (पूर्वोक्त प्रकारसे), [जीवानां ] जीवोंके [बंधसमासः ] बंधका संक्षेप [निश्चयेन ] निश्चयसे [अर्हद्भिः ] अर्हन्तभगवानने [यतीनां ] यतियोंसे [निर्दिष्टः ] कहा है; [व्यवहारः ] व्यवहार [अन्यथा ] अन्यप्रकारसे [भणितः ] कहा है ।।१८९।।
टीका : — रागपरिणाम ही आत्माका कर्म है, वही पुण्य – पापरूप द्वैत है, आत्मा रागपरिणामका ही कर्ता है, उसीका ग्रहण करनेवाला है और उसीका त्याग करनेवाला है; — यह, ✽शुद्धद्रव्यका निरूपणस्वरूप निश्चयनय है । और जो पुद्गलपरिणाम आत्माका कर्म है, वही पुण्य – पापरूप द्वैत है, आत्मा पुद्गलपरिणामका कर्ता है, उसका ग्रहण करनेवाला और छोड़नेवाला है; — ऐसा जो नय वह ✽अशुद्धद्रव्यके निरूपणस्वरूप व्यवहारनय है । यह दोनों ✽निश्चयनय मात्र स्वद्रव्यके परिणामको बतलाता है, इसलिये उसे शुद्धद्रव्यका कथन करनेवाला कहा है, और व्यवहारनय परद्रव्यके परिणामको आत्मपरिणाम बतलाता है इसलिये उसे अशुद्धद्रव्यका कथन करनेवाला कहा है । यहाँ शुद्धद्रव्यका कथन एक द्रव्याश्रित परिणामकी अपेक्षासे जानना चाहिये, और