अथ केऽपवादविशेषा इत्युपदिशति —
उवयरणं जिणमग्गे लिंगं जहजादरूवमिदि भणिदं ।
गुरुवयणं पि य विणओ सुत्तज्झयणं च णिद्दिट्ठं ।।२२५।।
पेच्छदि ण हि इह लोगं निरुपरागनिजचैतन्यनित्योपलब्धिभावनाविनाशकं ख्यातिपूजालाभरूपं
प्रेक्षते न च हि स्फु टं इह लोकम् । न च केवलमिह लोकं , परं च स्वात्मप्राप्तिरूपं मोक्षं विहाय
स्वर्गभोगप्राप्तिरूपं परं च परलोकं च नेच्छति । स कः । समणिंददेसिदो धम्मो श्रमणेन्द्रदेशितो धर्मः,
जिनेन्द्रोपदिष्ट इत्यर्थः । धम्मम्हि तम्हि कम्हा धर्मे तस्मिन् कस्मात् वियप्पियं विकल्पितं निर्ग्रन्थलिङ्गाद्वस्त्र-
प्रावरणेन पृथक्कृतम् । किम् । लिंगं सावरणचिह्नम् । कासां संबन्धि । इत्थीणं स्त्रीणामिति
पूर्वपक्षगाथा ।।“२०।। अथ परिहारमाह —
णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा ।
तम्हा तप्पडिरूवं वियप्पियं लिंगमित्थीणं ।।“२१।।
णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा निश्चयतः स्त्रीणां नरकादिगतिविलक्षणानन्त-
सुखादिगुणस्वभावा तेनैव जन्मना सिद्धिर्न द्रष्टा, न कथिता । तम्हा तप्पडिरूवं तस्मात्कारणात्तत्प्रतियोग्यं
सावरणरूपं वियप्पियं लिंगमित्थीणं निर्ग्रन्थलिङ्गात्पृथक्त्वेन विकल्पितं कथितं लिङ्गं प्रावरणसहितं चिह्नम् ।
कासाम् । स्त्रीणामिति ।।“२१।। अथ स्त्रीणां मोक्षप्रतिबन्धकं प्रमादबाहुल्यं दर्शयति —
पइडीपमादमइया एदासिं वित्ति भासिया पमदा ।
तम्हा ताओ पमदा पमादबहुला त्ति णिद्दिट्ठा ।।“२२।।
पइडीपमादमइया प्रकृत्या स्वभावेन प्रमादेन निर्वृत्ता प्रमादमयी । का कर्त्री भवति । एदासिं
वित्ति । एतासां स्त्रीणां वृत्तिः परिणतिः । भासिया पमदा तत एव नाममालायां प्रमदाः प्रमदासंज्ञा
भाषिताः स्त्रियः । तम्हा ताओ पमदा यत एव प्रमदासंज्ञास्ताः स्त्रियः, तस्मात्तत एव पमादबहुला त्ति
णिद्दिट्ठा निःप्रमादपरमात्मतत्त्वभावनाविनाशकप्रमादबहुला इति निर्दिष्टाः ।।“२२।। अथ तासां मोहादि-
बाहुल्यं दर्शयति —
संति धुवं पमदाणं मोहपदोसा भयं दुगुंछा य ।
चित्ते चित्ता माया तम्हा तासिं ण णिव्वाणं ।।“२३।।
कहानजैनशास्त्रमाला ]
चरणानुयोगसूचक चूलिका
४११
अब, अपवादके कौनसे विशेष (भेद) हैं, सो कहते हैं : —
जन्म्या प्रमाणे रूप भाख्युं उपकरण जिनमार्गमां,
गुरुवचन ने सूत्राध्ययन, वळी विनय पण उपकरणमां. २२५.