Pravachansar (Hindi).

< Previous Page   Next Page >


Page 412 of 513
PDF/HTML Page 445 of 546

 

४१२प्रवचनसार[ भगवानश्रीकुंदकुंद-
उपकरणं जिनमार्गे लिङ्गं यथाजातरूपमिति भणितम्
गुरुवचनमपि च विनयः सूत्राध्ययनं च निर्दिष्टम् ।।२२५।।

संति धुवं पमदाणं सन्ति विद्यन्ते ध्रुवं निश्चितं प्रमदानां स्त्रीणाम् के ते मोहपदोसा भयं दुगुंछा मोहादिरहितानन्तसुखादिगुणस्वरूपमोक्षकारणप्रतिबन्धकाः मोहप्रद्वेषभयदुगुंछापरिणामाः, चित्ते चित्ता माया कौटिल्यादिरहितपरमबोधादिपरिणतेः प्रतिपक्षभूता चित्ते मनसि चित्रा विचित्रा माया, तम्हा तासिं ण णिव्वाणं तत एव तासामव्याबाधसुखाद्यनन्तगुणाधारभूतं निर्वाणं नास्तीत्यभिप्रायः ।।“२३।। अथैतदेव द्रढयति

ण विणा वट्टदि णारी एक्कं वा तेसु जीवलोयम्हि
ण हि संउडं च गत्तं तम्हा तासिं च संवरणं ।।“२४।।

ण विणा वट्टदि णारी न विना वर्तते नारी एक्कं वा तेसु जीवलोयम्हि तेषु निर्दोषि- परमात्मध्यानविघातकेषु पूर्वोक्तदोषेषु मध्ये जीवलोके त्वेकमपि दोषं विहाय ण हि संउडं च गत्तं हि स्फु टं संवृत्तं गात्रं च शरीरं, तम्हा तासिं च संवरणं तत एव च तासां संवरणं वस्त्रावरणं क्रियत इति ।।“२४।। अथ पुनरपि निर्वाणप्रतिबन्धकदोषान्दर्शयति

चित्तस्सावो तासिं सित्थिल्लं अत्तवं च पक्खलणं
विज्जदि सहसा तासु अ उप्पादो सुहममणुआणं ।।“२५।।

विज्जदि विद्यते तासु अ तासु च स्त्रीषु किम् चित्तस्सावो चित्तस्रवः, निःकामात्मतत्त्व- संवित्तिविनाशकचित्तस्य कामोद्रेकेण स्रवो रागसार्द्रभावः, तासिं तासां स्त्रीणां, सित्थिल्लं शिथिलस्य भावः शैथिल्यं, तद्भवमुक्तियोग्यपरिणामविषये चित्तदाढर्याभावः सत्त्वहीनपरिणाम इत्यर्थः, अत्तवं च पक्खलणं ऋतौ भवमार्तवं प्रस्खलनं रक्तस्रवणं, सहसा झटिति, मासे मासे दिनत्रयपर्यन्तं चित्तशुद्धिविनाशको रक्तस्रवो भवतीत्यर्थः, उप्पादो सुहममणुआणं उत्पाद उत्पत्तिः सूक्ष्मलब्ध्यपर्याप्त- मनुष्याणामिति ।।““ ““ “

।२५।। अथोत्पत्तिस्थानानि कथयति
लिंगम्हि य इत्थीणं थणंतरे णाहिकक्खपदेसेसु
भणिदो सुहुमुप्पादो तासिं कह संजमो होदि ।।“२६।।

लिंगम्हि य इत्थीणं थणंतरे णाहिकक्खपदेसेसु स्त्रीणां लिङ्गे योनिप्रदेशे, स्तनान्तरे, नाभिप्रदेशे, कक्षप्रदेशे च, भणिदो सुहुमुप्पादो एतेषु स्थानेषु सूक्ष्ममनुष्यादिजीवोत्पादो भणितः एते पूर्वोक्तदोषाः

गाथा : २२५ अन्वयार्थ :[यथाजातरूपं लिगं ] यथाजातरूप (-जन्मजात नग्न) जो लिंग वह [जिनमार्गे ] जिनमार्गमें [उपकरणं इति भणितम् ] उपकरण कहा गया है, [गुरुवचनं ] गुरुके वचन, [सूत्राध्ययनं च ] सूत्रोंका अध्ययन [च ] और [विनयः अपि ] विनय भी [निर्दिष्टम् ] उपकरण कही गई है ।।२२५।।