यो हि नामाप्रतिषिद्धोऽस्मिन्नुपधिरपवादः, स खलु निखिलोऽपि श्रामण्यपर्याय-
सहकारिकारणत्वेनोपकारकारकत्वादुपकरणभूत एव, न पुनरन्यः । तस्य तु विशेषाः सर्वाहार्य-
वर्जितसहजरूपापेक्षितयथाजातरूपत्वेन बहिरंगलिंगभूताः कायपुद्गलाः, श्रूयमाणतत्कालबोधक-
पुरुषाणां किं न भवन्तीति चेत् । एवं न वक्तव्यं, स्त्रीषु बाहुल्येन भवन्ति । न चास्तित्वमात्रेण
समानत्वम् । एकस्य विषकणिकास्ति, द्वितीयस्य च विषपर्वतोऽस्ति, किं समानत्वं भवति । किंतु
पुरुषाणां प्रथमसंहननबलेन दोषविनाशको मुक्तियोग्यविशेषसंयमोऽस्ति । तासिं कह संजमो होदि ततः
कारणात्तासां कथं संयमो भवतीति ।।“२६।। अथ स्त्रीणां तद्भवमुक्तियोग्यां सकलकर्मनिर्जरां
निषेधयति —
जदि दंसणेण सुद्धा सुत्तज्झयणेण चावि संजुत्ता ।
घोरं चरदि व चरियं इत्थिस्स ण णिज्जरा भणिदा ।।“२७।।
जदि दंसणेण सुद्धा यद्यपि दर्शनेन सम्यक्त्वेन शुद्धा, सुत्तज्झयणे चावि संजुत्ता एकादशाङ्ग-
सूत्राध्ययनेनापि संयुक्ता, घोरं चरदि व चरियं घोरं पक्षोपवासमासोपवासादि चरति वा चारित्रं, इत्थिस्स
ण णिज्जरा भणिदा तथापि स्त्रीजनस्य तद्भवकर्मक्षययोग्या सकलनिर्जरा न भणितेति भावः । किंच यथा
प्रथमसंहननाभावात्स्त्री सप्तमनरकं न गच्छति, तथा निर्वाणमपि । ‘‘पुंवेदं वेदंता पुरिसा जे
खवगसेढिमारूढा । सेसोदयेण वि तहा झाणुवजुत्ता य ते दु सिज्झंति’’ इति गाथाकथितार्थाभिप्रायेण
भावस्त्रीणां कथं निर्वाणमिति चेत् । तासां भावस्त्रीणां प्रथमसंहननमस्ति, द्रव्यस्त्रीवेदाभावात्तद्भवमोक्ष-
परिणामप्रतिबन्धकतीव्रकामोद्रेकोऽपि नास्ति । द्रव्यस्त्रीणां प्रथमसंहननं नास्तीति कस्मिन्नागमे
कथितमास्त इति चेत् । तत्रोदाहरणगाथा – ‘‘अंतिमतिगसंघडणं णियमेण य कम्मभूमिमहिलाणं ।
आदिमतिगसंघडणं णत्थि त्ति जिणेहिं णिद्दिट्ठं’’।। अथ मतम् – यदि मोक्षो नास्ति तर्हि भवदीयमते
किमर्थमर्जिकानां महाव्रतारोपणम् । परिहारमाह – तदुपचारेण कुलव्यवस्थानिमित्तम् । न चोपचारः
साक्षाद्भवितुमर्हति, अग्निवत् क्रूरोऽयं देवदत्त इत्यादिवत् । तथाचोक्तम् – मुख्याभावे सति प्रयोजने
निमित्ते चोपचारः प्रवर्तते । किंतु यदि तद्भवे मोक्षो भवति स्त्रीणां तर्हि शतवर्षदीक्षिताया अर्जिकाया
अद्यदिने दीक्षितः साधुः कथं वन्द्यो भवति । सैव प्रथमतः किं न वन्द्या भवति साधोः । किंतु भवन्मते
कहानजैनशास्त्रमाला ]
चरणानुयोगसूचक चूलिका
४१३
टीका : — इसमें जो अनिषिद्ध उपधि अपवाद है, वह सभी वास्तवमें ऐसा ही
है कि जो श्रामण्यपर्यायके सहकारी कारणके रूपमें उपकार करनेवाला होनेसे उपकरणभूत
है, दूसरा नहीं । उसके विशेष (भेद) इसप्रकार हैं : — (१) सर्व आहार्य रहित सहजरूपसे
अपेक्षित (सर्व आहार्य रहित) यथाजातरूपपनेके कारण जो बहिरंग लिंगभूत हैं ऐसे
१. आहार्य = बाहरसे लाया जानेवाला; कृत्रिम; औपाधिक, (सर्व कृत्रिम – औपाधिक भावोंसे रहित मुनिके
आत्माका सहजरूप वस्त्राभूषणादि सर्व कृत्रिमताओंसे रहित यथाजातरूपपनेकी अपेक्षा रखता है अर्थात्
मुनिके आत्माका रूप – दशा – सहज होनेसे शरीर भी यथाजात ही होना चाहिये; इसलिये यथाजातरूपपना
वह मुनिपनेका बाह्यलिंग है ।])