अनुजिघृक्षापूर्वकदर्शनज्ञानोपदेशप्रवृत्तिः शिष्यसंग्रहणप्रवृत्तिस्तत्पोषणप्रवृत्तिर्जिनेन्द्र- पूजोपदेशप्रवृत्तिश्च शुभोपयोगिनामेव भवन्ति, न शुद्धोपयोगिनाम् ।।२४८।।
दर्शनं मूढत्रयादिरहितं सम्यक्त्वं, ज्ञानं परमागमोपदेशः, तयोरुपदेशो दर्शनज्ञानोपदेशः । सिस्सग्गहणं च पोसणं तेसिं रत्नत्रयाराधनाशिक्षाशीलानां शिष्याणां ग्रहणं स्वीकारस्तेषामेव पोषणमशनशयनादिचिन्ता । चरिया हि सरागाणं इत्थंभूता चर्या चारित्रं भवति, हि स्फु टम् । केषाम् । सरागाणां धर्मानुराग- चारित्रसहितानाम् । न केवलमित्थंभूता चर्या, जिणिंदपूजोवदेसो य यथासंभवं जिनेन्द्रपूजादि- धर्मोपदेशश्चेति । ननु शुभोपयोगिनामपि क्वापि काले शुद्धोपयोगभावना दृश्यते, शुद्धोपयोगिनामपि क्वापि काले शुभोपयोगभावना दृश्यते, श्रावकाणामपि सामायिकादिकाले शुद्धभावना दृश्यते, तेषां कथं विशेषो भेदो ज्ञायत इति । परिहारमाह — युक्तमुक्तं भवता, परं किंतु ये प्रचुरेण शुभोपयोगेन वर्तन्ते ते यद्यपि क्वापि काले शुद्धोपयोगभावनां कुर्वन्ति तथापि शुभोपयोगिन एव भण्यन्ते । येऽपि शुद्धोपयोगिनस्ते यद्यपि क्वापि काले शुभोपयोगेन वर्तन्ते तथापि शुद्धोपयोगिन एव । कस्मात् । बहुपदस्य प्रधानत्वादाम्रवननिम्बवनवदिति ।।२४८।। अथ काश्चिदपि याः प्रवृत्तयस्ताः शुभोपयोगि- नामेवेति नियमति — उवकुणदि जो वि णिच्चं चादुव्वण्णस्स समणसंघस्स उपकरोति योऽपि नित्यं । कस्य ।
अन्वयार्थ : — [दर्शनज्ञानोपदेशः ] दर्शनज्ञानका (सम्यग्दर्शन और सम्यग्ज्ञानका) उपदेश, [शिष्यग्रहणं ] शिष्योंका ग्रहण, [च ] तथा [तेषाम् पोषणं ] उनका पोषण, [च ] और [जिनेन्द्रपूजोपदेशः ] जिनेन्द्रकी पूजाका उपदेश [हि ] वास्तवमें [सरागाणां चर्या ] सरागियोंकी चर्या है ।।२४८।।
टीका : — अनुग्रह करनेकी इच्छापूर्वक दर्शनज्ञानके उपदेशकी प्रवृत्ति, शिष्यग्रहणकी प्रवृत्ति, उनके पोषणकी प्रवृत्ति और जिनेन्द्रपूजनके उपदेशकी प्रवृत्ति शुभोपयोगियोंके ही होती है, शुद्धोपयोगियोंके नहीं ।।२४८।।
चउविध साधुसंघने, ते श्रमण रागप्रधान छे. २४९.