ये खलु नाद्यापि संभूतिमनुभवन्ति, ये चात्मलाभमनुभूय विलयमुपगतास्ते किला- सद्भूता अपि परिच्छेदं प्रति नियतत्वात् ज्ञानप्रत्यक्षतामनुभवन्तः शिलास्तम्भोत्कीर्णभूतभावि- देववदप्रकम्पार्पितस्वरूपाः सद्भूता एव भवन्ति ।।३८।।
जानाति, न च तन्मयत्वेन, निश्चयेन तु केवलज्ञानादिगुणाधारभूतं स्वकीयसिद्धपर्यायमेव स्वसंवित्त्या- कारेण तन्मयो भूत्वा परिच्छिनत्ति जानाति, तथासन्नभव्यजीवेनापि निजशुद्धात्मसम्यक्श्रद्धान- ज्ञानानुष्ठानरूपनिश्चयरत्नत्रयपर्याय एव सर्वतात्पर्येण ज्ञातव्य इति तात्पर्यम् ।।३७।। अथातीताना- गतपर्यायाणामसद्भूतसंज्ञा भवतीति प्रतिपादयति ---जे णेव हि संजाया जे खलु णट्ठा भवीय पज्जाया ये नैव संजाता नाद्यापि भवन्ति, भाविन इत्यर्थः । हि स्फु टं ये च खलु नष्टा विनष्टाः पर्यायाः । किं कृत्वा । भूत्वा । ते होंति असब्भूदा पज्जाया ते पूर्वोक्ता भूता भाविनश्च पर्याया अविद्यमानत्वादसद्भूता भण्यन्ते । णाणपच्चक्खा ते चाविद्यमानत्वादसद्भूता अपि वर्तमानज्ञानविषयत्वाद्वयवहारेण भूतार्था भण्यन्ते, तथैव ज्ञानप्रत्यक्षाश्चेति । यथायं भगवान्निश्चयेन परमानन्दैकलक्षणसुखस्वभावं मोक्षपर्यायमेव तन्मयत्वेन परिच्छिनत्ति, परद्रव्यपर्यायं तु व्यवहारेणेति; तथा भावितात्मना पुरुषेण रागादिविकल्पोपाधि- रहितस्वसंवेदनपर्याय एव तात्पर्येण ज्ञातव्यः, बहिर्द्रव्यपर्यायाश्च गौणवृत्त्येति भावार्थः ।।३८।।
टीका : — जो (पर्यायें ) अभी तक उत्पन्न भी नहीं हुई और जो उत्पन्न होकर नष्ट हो गई हैं, वे (पर्यायें ) वास्तवमें अविद्यमान होने पर भी, ज्ञानके प्रति नियत होनेसे (ज्ञानमें निश्चित — स्थिर — लगी हुई होनेसे, ज्ञानमें सीधी ज्ञात होनेसे ) १ज्ञानप्रत्यक्ष वर्तती हुई, पाषाण स्तम्भमें उत्कीर्ण, भूत और भावी देवों (तीर्थंकरदेवों ) की भाँति अपने स्वरूपको अकम्पतया (ज्ञानको) अर्पित करती हुई (वे पर्यायें ) विद्यमान ही हैं ।।३८।।
अब, इन्हीं अविद्यमान पर्यायोंकी ज्ञानप्रत्यक्षताको दृढ़ करते हैं : — १. प्रत्यक्ष = अक्षके प्रति — अक्षके सन्मुख — अक्षके निकटमें — अक्षके सम्बन्धमें हो ऐसा ।
ज्ञाने अजात -विनष्ट पर्यायो तणी प्रत्यक्षता नव होय जो, तो ज्ञानने ए ‘दिव्य’ कौण कहे भला ? ३९.