Pravachansar (Hindi).

< Previous Page   Next Page >


Page 67 of 513
PDF/HTML Page 100 of 546

 

कहानजैनशास्त्रमाला ]
ज्ञानतत्त्व -प्रज्ञापन
६७
यदि प्रत्यक्षोऽजातः पर्यायः प्रलयितश्च ज्ञानस्य
न भवति वा तत् ज्ञानं दिव्यमिति हि के प्ररूपयन्ति ।।३९।।

यदि खल्वसंभावितभावं संभावितभावं च पर्यायजातमप्रतिघविजृंभिताखंडित- प्रतापप्रभुशक्तितया प्रसभेनैव नितान्तमाक्रम्याक्रमसमर्पितस्वरूपसर्वस्वमात्मानं प्रति नियतं ज्ञानं न करोति, तदा तस्य कुतस्तनी दिव्यता स्यात् अतः काष्ठाप्राप्तस्य परिच्छेदस्य सर्व- मेतदुपपन्नम् ।।३९।। अथासद्भूतपर्यायाणां वर्तमानज्ञानप्रत्यक्षत्वं दृढयतिजइ पच्चक्खमजादं पज्जायं पलयिदं च णाणस्स ण हवदि वा यदि प्रत्यक्षो न भवति स कः अजातपर्यायो भाविपर्यायः न केवलं भाविपर्यायः प्रलयितश्च वा कस्य ज्ञानस्य तं णाणं दिव्वं ति हि के परूवेंति तद्ज्ञानं दिव्यमिति के प्ररूपयन्ति, न केऽपीति तथा हियदि वर्तमानपर्यायवदतीतानागतपर्यायं ज्ञानं कर्तृ क्रमकरणव्यवधान- रहितत्वेन साक्षात्प्रत्यक्षं न करोति, तर्हि तत् ज्ञानं दिव्यं न भवति वस्तुतस्तु ज्ञानमेव न भवतीति यथायं केवली परकीयद्रव्यपर्यायान् यद्यपि परिच्छित्तिमात्रेण जानाति, तथापि निश्चयनयेन सहजानन्दैकस्वभावे स्वशुद्धात्मनि तन्मयत्वेन परिच्छित्तिं करोति, तथा निर्मलविवेकिजनोऽपि यद्यपि व्यवहारेण परकीयद्रव्यगुणपर्यायपरिज्ञानं करोति, तथापि निश्चयेन निर्विकारस्वसंवेदनपर्याये विषयत्वात्पर्यायेण परिज्ञानं करोतीति सूत्रतात्पर्यम् ।।३९।। अथातीतानागतसूक्ष्मादिपदार्थानिन्द्रियज्ञानं

अन्वयार्थ :[यदि वा ] यदि [अजातः पर्यायः ] अनुत्पन्न पर्याय [च ] तथा [प्रलयितः ] नष्ट पर्याय [ज्ञानस्य ] ज्ञानके (केवलज्ञानके) [प्रत्यक्षः न भवति ] प्रत्यक्ष न हो तो [तत् ज्ञानं ] उस ज्ञानको [दिव्यं इति हि ] ‘दिव्य’ [के प्ररूपयंति ] कौन प्ररूपेगा ? ।।३९।।

टीका :जिसने अस्तित्वका अनुभव नहीं किया और जिसने अस्तित्वका अनुभव कर लिया है ऐसी (अनुत्पन्न और नष्ट) पर्यायमात्रको यदि ज्ञान अपनी निर्विघ्न विकसित, अखंडित प्रतापयुक्त प्रभुशक्तिके (-महा सामर्थ्य ) द्वारा बलात् अत्यन्त आक्रमित करे (-प्राप्त करे), तथा वे पर्यायें अपने स्वरूपसर्वस्वको अक्रमसे अर्पित करें (-एक ही साथ ज्ञानमें ज्ञात हों ) इसप्रकार उन्हें अपने प्रति नियत न करे (-अपनेमें निश्चित न करे, प्रत्यक्ष न जाने), तो उस ज्ञानकी दिव्यता क्या है ? इससे (यह कहा गया है कि) पराकाष्ठाको प्राप्त ज्ञानके लिये यह सब योग्य है

भावार्थ :अनन्त महिमावान केवलज्ञानकी यह दिव्यता है कि वह अनन्त द्रव्योंकी समस्त पर्यायोंको (अतीत और अनागत पर्यायोंको भी) सम्पूर्णतया एक ही समय प्रत्यक्ष जानता है ।।३९।।