४ ][ श्री जिनेन्द्र
प्रालेयनीलहरितारुणपीतभासं
यन्मूर्तिमव्यय सुखावसथं मुनींद्राः
ध्यायंति सप्ततिशतं जिनवल्लभानां
त्वद्ध्यानतोस्तु सततं मम सुप्रभातं.१०
(अनुष्टुप)
सुप्रभातं सुनक्षत्रं मांगल्यं परिकीर्तितं,
चतुर्विंशति तीर्थानां सुप्रभातं दिनेदिने. ११
सुप्रभातं सुनक्षत्रं श्रेयः प्रत्यभिनंदितं,
देवता ॠषयः सिद्धाः सुप्रभातं दिने दिने. १२
सुप्रभातं तवैकस्य वृषभस्य महात्मनः,
येन प्रवर्तितं तीर्थं भव्यसत्त्व सुखावहं. १३
सुप्रभातं जिनेन्द्राणां ज्ञानोन्मीलितचक्षुषां,
अज्ञानतिमिरांधानां नित्यमस्तमितोरविः १४
सुप्रभातं जिनेंद्रस्य वीरः कमललोचनः,
येन कर्माटवी दग्धा शुक्लध्यानोग्रवह्निना. १५
सुप्रभातं सुनक्षत्रं सुकल्याणं सुमंगलं,
त्रैलोक्यहितकर्तृणां जिनानामेव शासनं. १६
इति सुप्रभात मंगलं.
❀