अद्य मे सफलं जन्म प्रशस्तं सर्वमङ्गलम् ।
संसारार्णवत्तीर्णोऽहं जिनेन्द्र तव दर्शनात् ।।४।।
अद्य कर्माष्टकज्वालं विधूतं सकषायकम् ।
दुर्गतेर्विनिवृत्तोऽहं जिनेन्द्र तव दर्शनात् ।।५।।
अद्य सौम्या ग्रहाः सर्वे शुभाश्चैकादश-स्थिताः ।
नष्टानि विघ्नजालानि जिनेन्द्र तव दर्शनात् ।।६।।
अद्य नष्टो महाबन्धः कर्मणां दुःखदायकः ।
सुखसंगं समापन्नो जिनेन्द्र तव दर्शनात् ।।७।।
अद्य कर्माष्टकं नष्टं दुःखोत्पादनकारकम् ।
सुखाम्भोधिनिमग्नोऽहं जिनेन्द्र तव दर्शनात् ।।८।।
अद्य मिथ्यान्धकारस्य हन्ता ज्ञानदिवाकरः ।
उदितो मच्छरीरेऽस्मिन् जिनेन्द्र तव दर्शनात् ।।९।।
अद्याहं सुकृतो भूतो निर्धूताशेषकल्मषः ।
भुवनत्रयपूज्योऽहं जिनेन्द्र तव दर्शनात् ।।१०।।
अद्याष्टकं पठेद्यस्तु गुणानंदितमानसः ।
तस्य सर्वार्थसंसिद्धिर्जिनेन्द्र तव दर्शनात् ।।११।।
इति अद्याष्टकस्तोत्रं सम्पूर्णम् ।
❀
[ ૮ ]