Shri Jinendra Stavan Manjari (Gujarati). Jinendradarshanstotra.

< Previous Page   Next Page >


PDF/HTML Page 9 of 456

 

background image
जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने
सदा मेऽस्तु सदा मेऽस्तु सदा मेऽस्तु भवे भवे ।।
जिनधर्मविनिर्मुक्तो मा भवच्चक्रवर्त्यपि
स्याच्चेटोऽपि दरिद्रोऽपि जिनधर्मानुवासितः ।।
जन्मजन्मकृतं पापं जन्मकोटिमुपार्जितम्
जन्ममृत्युजरारोगं हन्यते जिनदर्शनात् ।।
अद्याभवस्सफलता नयनद्वयस्य,
देव त्वदीय चरणाम्बुजवीक्षणेन
अद्य त्रिलोकतिलक प्रतिभासते मे,
संसारवारिधिरयं चुलुकप्रमाणम् ।।
इति देवदर्शनं सम्पूर्णम् ।
जिनेन्द्रदर्शनस्तोत्र
अद्य मे सफलं जन्म नेत्रे च सफले मम
त्वामद्राक्षं यतो देव हेतुमक्षयसम्पदः ।।।।
अद्य संसारगम्भीरपारावारः सुदुस्तरः
सुतरोऽयं क्षणेनैव जिनेन्द्र तव दर्शनात् ।।।।
अद्य मे क्षालितं गात्रं नेत्रे च विमले कृते
स्नातोऽहं धर्मतीर्थेषु जिनेन्द्र तव दर्शनात् ।।।।
[ ૭ ]