Shri Jinendra Stavan Manjari (Gujarati). Devadarshan.

< Previous Page   Next Page >


PDF/HTML Page 8 of 456

 

background image
देवदर्शन
दर्शनं देव देवस्य दर्शनं पापनाशनं
दर्शनं स्वर्गसोपानं दर्शनं मोक्षसाधनम् ।।
दर्शनेन जिनेंद्राणां साधूनां वंदनने च
न चिरं तिष्ठते पापं छिद्रहस्ते यथोदकम् ।।
वीतरागमुखं दृष्ट्वा पद्मरागसमप्रभम्
अनेकजन्मकृतं पापं दर्शनेन विनश्यति ।।
दर्शनं जिनसूर्यस्य संसारध्वान्तनाशनम्
बोधनं चित्तपद्मस्य समस्तार्थप्रकाशनम् ।।
दर्शनं जिनचन्द्रस्य सद्धर्मामृतवर्षणम्
जन्मदाहविनाशाय वर्धनं सुखवारिधेः ।।
जीवादितत्त्वं प्रतिपादकाय, सम्यक्त्वमुख्याष्टगुणाश्रयाय
प्रशांतरूपाय दिगम्बराय, देवाधिदेवाय नमो जिनाय ।।
चिदानन्दैकरूपाय जिनाय परमात्मने
परमात्मप्रकाशाय नित्यं सिद्धात्मने नमः ।।
अन्यथा शरणं नास्ति त्वमेव शरणं मम
तस्मात्कारुण्यभावेन रक्ष रक्ष जिनेश्वर ।।
न हि त्राता न हि त्राता न हि त्राता जगत्त्रये
वीतरागात्परो देवो न भूतो न भविष्यति ।।
[ ૬ ]